________________
२४०
संगीतरत्नाकरः द्विगुणाभिः कलाभिः स्यान्मात्रात्रैगुण्यतो भवेत् । बाणलेखा बाणगणेश्चन्द्रलेखा तु मिश्रितैः ॥ ९७ ॥ गणैश्चतुर्गुणकलाश्चतस्रोऽन्या ब्रुवेऽधुना। आयेन्दुमत्यथो ज्योतिष्मती पश्चान्नभवती ।। ९८ ॥ वसुमत्यपि तत्रेन्दुमती छैः पञ्चभिः सतैः। पञ्चभिः पैः सचगणैराहुयोतिष्मती वुधाः ॥ ९९ ॥ त्रिभिश्चैः पगणेनापि छाद्यन्ता स्यानभखती। सा स्याद्वसुमती यस्यां दपचाः पत्रयं छतौ ॥ १० ॥
पादे त्रिंशन्मात्राभिरित्यर्थः । वाणगणैः पूर्वोक्तैः प्रतिष्ठाभेदैर्यथायोगं योजितैर्बाणलेखा भवेत् । चन्द्रलेखा वित्यादि । मिश्रितैर्गणैरिति । रतिकामबाणगणैः पूर्वोक्तमात्रासंख्यानुगुण्येन योजितैरित्यर्थः । चतुर्गुणकलेति । रतिलेखापेक्षयात्रापि चतुर्गुणत्वम् । तेन प्रथमद्वितीययोः पादयोः प्रत्येकं चतुश्चत्वारिंशन्मात्रायुक्ता, तृतीये पादे चत्वारिंशन्मात्रायुक्ता चन्द्रलेखा भवतीत्यर्थः। नन्दिमतेनान्यां मात्रैलां लक्षयितुमाह-चतस्रोऽन्या इत्यादि । सतैरिति । तगणेन सहितैः । तगणोऽत्र मात्रात्रयात्मको मात्रागणः । तस्याप्रधानत्वादन्ते निवेशः कर्तव्यः । छैः छगणैः षण्मात्रात्मकर्मात्रागणैरिन्दुमती नाम मात्रैला भवति । पञ्चभिः पैरिति । पैः पगणैः पञ्चमात्रात्मकर्मात्रागणैः । सचगणैः, चगणोऽत्र चतुर्मात्रात्मको मात्रागणः ; तेन सहितैः ; ज्योतिष्मती नाम मात्रैलामाहुर्बुधा मतङ्गादयः । छायन्ता; आदौ छगण एकः, ततश्चगणास्त्रयः, ततः पगण एकः, अन्ते छगणश्च ; एतैर्युक्ता नभस्वती स्यात् । सा स्यादिति । यस्यां दपचा दगणपगणचगणाः, दगणो मात्राद्वयात्मकः, पत्रयं पगणत्रयं, छतौ छगणतगणौ च क्रमेण भवन्ति, सा वसुमती स्यात् ॥ ९४-१०० ॥
Scanned by Gitarth Ganga Research Institute