________________
१]
द्वितीयो रागविवेकाध्यायः
ग्रामरागाः
षड्जग्रामसमुत्पन्नः शुद्ध कैशिकमध्यमः । शुद्धसाधारितः षड्जग्रामो ग्रामे तु मध्यमे ॥ ८ ॥ पञ्चमो मध्यमग्रामः षाडवः शुद्धकैशिकः । शुद्धाः सप्तेति, भिन्नाः स्युः पञ्च कैशिकमध्यमः ॥ ९ ॥ भिन्नषड्जश्च षड्जाख्ये मध्यमे तानकैशिकौ । भिन्नपञ्चम इत्येते, गौडकैशिकमध्यमः ॥ १० ॥
गीतिर्वेगस्वरा वेसरेति चोच्यते । वर्णचतुष्केऽप्यतिशयेन रञ्जकत्वाद्रागा इत्युच्यन्ते । रागशब्दप्रवृत्तिनिमित्तमुक्तं काश्यपेन -
" चतुर्णामपि वर्णानां यो रागः शोभनो भवेत् ।
स सर्वो दृश्यते येषु तेन रागा इति स्मृता: ।
स्वराः सरन्ति यद्वेगात्तस्माद्वेसरका स्मृता ॥ "
७
इति । चतुर्गीतिगतमिति । शुद्धादीनां चतसृणां गीतीनां किंचिल्लक्षणसमुच्चयेन साधारणी । लक्षणसमुच्चयश्वोक्तो मतङ्गेन
“ऋजुभिर्ललिते: किंचित् सूक्ष्मात्सूक्ष्मैश्व सुश्रवैः । ईषद् द्रुतैश्च कर्तव्या मृदुभिर्ललितैस्तथा ॥ प्रयोगे मसृणैः सूक्ष्मैः काकुभिश्च सुयोजितैः । एवं साधारणी ज्ञेया सर्वगीतिसमाश्रया ॥ "
इति । गीतिसंबन्धेन रागाणां शुद्धादिनामत्वमित्याह -- शुद्धादीति । शुद्धादि - कया गया संयुक्ता रागाः शुद्धादय उदिताः ॥ ६, ७ ॥
(क०) एवमुक्तसमस्तमतानुसारेण तत्तद्गीताश्रितान्प्रामरागादीन्विविच्योद्दिश्य परिगणयति – षड्जग्राम समुत्पन्नः शुद्धकैशिकमध्यमः इत्यारभ्य
Scanned by Gitarth Ganga Research Institute