________________
संगीतरत्नाकरः
[प्रकरणम् वेगवद्भिः स्वरैर्वर्णचतुष्केऽप्यतिरक्तितः । वेगस्वरा रागगीतिसरा चोच्यते बुधैः ॥ ६॥ चतुर्गीतिगतं लक्ष्म श्रिता साधारणी मता। शुद्धादिगीतियोगेन रागाः शुद्धादयो मताः ॥७॥
ओहाटी मन्द्रजोपात्ता प्रयोगे ध्वनिकम्पितैः । अविश्रामेण त्रिस्थाना गौडी गीतिरुदाहृता ॥"
इति ॥ २-५॥
(क०) वर्णचतुष्केऽपि स्थाय्यादिवर्णचतुष्टयेऽपि अतिरक्तितो रक्त्यतिशयवशात् वेगवद्भिः शीघ्रप्रयोगवद्भिः स्वरैर्युता रागगीतिः रागाश्रयभूता गीतिवेंगस्वरेत्यन्वर्थसंज्ञिका बुधैर्मतङ्गादिभिर्वसरा च वेसरसंज्ञिता चोच्यते । वेगस्वरेत्यत्र गवकारयोः परित्यागे स्वरसाम्याद्वेसरेति भवतीत्यर्थः । चतुर्गीतिगतं समनन्तरोक्तशुद्धादिगीतिचतुष्टयगतं लक्ष्म लक्षणं श्रिता मिश्रणादाश्रिता ; अतः साधारणीत्यन्वर्था मता । शुद्धादिगीतियोगेन ; शुद्धादिगीतिभिर्योग आश्रयायिभावलक्षणः संबन्धस्तेन ; रागाः ; अत्र रागा इति ग्रामरागा एव विवक्षिताः। शुद्धादयो मताः; आश्रयाश्रयिणोरभेदोपचाराच्छुद्धादिव्यपदेशेन लक्ष्यन्त इत्यर्थः । ननु पूर्वोक्ताभ्यो मागध्यादिगीतिभ्योऽधुनोक्तानां शुद्धादिगीतीनां को भेद इति चेत् ; उच्यते-मागध्यादयः प्राधान्येन पदतालाश्रिताः; शुद्धादयस्तु प्राधान्येन स्वराश्रिता इति । इह ग्रन्थकार एताः पञ्च गीतीर्दुर्गामतानुसारेणालक्षयत् । मतङ्गस्तु भाषाविभाषाभ्यां सहिताः सप्त गीतीराचष्ट । भरतः पुनर्मागध्यादीश्चतस्र एव गीतीरुक्तवान् । भाषाविभाषान्तरभाषाख्यास्तिस्र एव गीतयो याष्टिकेनोक्ताः । एकैव भाषागीतिः शार्दूलमुनिनाभिहिता ॥ ६, ७ ॥
(सं०) वेसरां गीतिं लक्षयति-वेगवद्भिरिति । वेगवद्भिः स्वरैर्युक्ता
Scanned by Gitarth Ganga Research Institute