________________
द्वितीयो रागविवेकाध्यायः साधारणी तु विज्ञेया गीतिज्ञैः पञ्चमी तथा । भाषागीतिस्तु षष्ठी स्याद्विभाषा चैव सप्तमी ।। भाषा चैव विभाषा च तथा चान्तरभाषिका । तिस्रस्तु गीतयः प्रोक्ता याष्टिकेन महात्मना । भाषाख्या गीतिरेकैव शार्दूलमतसंमता। गीतयः पञ्च विज्ञेयाः शुद्धा भिन्ना च वेसरा । गौडी साधारणी चैव, इति दुर्गामते मतम् ॥"
इति । तत्र दुर्गामतमाश्रित्य पञ्च गीतय इत्युक्तम् । शुद्धां गीति लक्षयति-- शुद्धा स्यादिति । अवक्रैः सरलैललितः सुकुमारैः स्वरैर्युता गीतिः शुद्धा । भिन्नां लक्षयति-भिन्नेति । वक्रैः सूक्ष्मैरस्थूलै: स्वरैर्मधुरैः गमकैश्च युक्ता गीतिभिन्ना; भेदो विकारः, अतस्तयुक्ता गीतिर्भिन्ना । यदुक्तं मतङ्गेन-" ननु भिन्नशब्देन किमभिधीयते ? भिन्नत्वं विदारणं व्यतिरिक्तत्वं वा? मैवम् ; भिन्नोऽत्र विकृत उच्यते” इति । गौडी लक्षयति- गाद्वैरिति । गाडैः प्रखरैः, त्रिस्थानव्यापका गमका येषु स्वरेषु तैः, ओहाटीललितैः ओहाव्या ललितैः रमणीयैः स्वरैयुक्ता स्थानत्रयव्यापिनी गीतिौडी । ओहाव्या ललितैः स्वरैरित्युक्तम् । तत्र केयमोहाटीत्यपेक्षायामाह-ओहाटीति । कम्पितैर्मन्ग वत्तरैः खरैर्हकारौकारयोगाद्धृदिस्थे चिबुके सत्योहाटी भवेत् । मतङ्गेनाप्युक्तम्
"ओहाटीललिताश्चापि स्वरा गौडयाश्च शोभनाः । हकारौकारयोर्योगादोहाटी परिकीर्तिता ॥ चिबुकं हृदये न्यस्य त्वोहाटी मन्द्रजा भवेत् । द्रुतद्रुततरा कार्या स्वरकम्पेन पीडिता ॥
ओहाटी ललिता चापि दृष्टादृष्टेन कर्मणा । त्रिस्थानकरणैर्युक्ता त्रिस्थानचलनाकुला ॥ चतुर्विधा तदौहाटी कर्तव्या गेयवेदिभिः । समाक्षरा समा चैव कार्यारोहावरोहिणी ॥
Scanned by Gitarth Ganga Research Institute