________________
संगीतरत्नाकरः
[प्रकरणम् गाढस्त्रिस्थानगमकैरोहाटीललितैः स्वरैः। अखण्डितस्थितिः स्थानत्रये गौडी मता सताम् ॥ ४ ॥ ओहाटी कम्पितैर्मन्द्रमदुद्रुततरैः' स्वरैः।
हकारौकारयोगेण हृन्न्यस्ते चिबुके भवेत् ॥५॥ मध्यतारेषु प्रयुक्तैर्यथोचितैर्गमकैः, ओहाटीललितैः ओहाट्या ललितैः स्वरैश्च स्थानत्रयेऽखण्डितस्थितिरविच्छिन्नावस्थाना गीतिौडीति सतां मता । ओहाटीति लक्षणनिरुक्तिः । चिबुके हन्यस्ते सतीति मन्द्रस्वरपरंपराप्रयोगे प्रयत्नोक्तिः । हकारौकारयोगेणोपलक्षितैः, तदा हकारौकारानुकारप्रतीतिर्भवति; न तु साक्षात्तावेवोच्चारणीयावित्यर्थः । एतेनौकारहकारावटति गच्छतीत्योहाटीपदनिरुक्तिः सूचिता । एवं प्रयत्ने क्रियमाणे मृदु कोमलं यथा भवति तथा द्रुततरैरधराधरं शीघैः कम्पितैः कम्पिताख्यगमकयुक्तैर्मन्द्रैः स्वरैरोहाटी भवेदिति लक्षणार्थः । गौडप्रियत्वाद्गौडीति संज्ञावगन्तव्या ॥२-५॥
(सं०) तत्र ग्रामरागान्विभजते—पश्चधेति । ग्रामरागाः पञ्चप्रकारा भवन्ति । केन विशेषेण तेषां पञ्चप्रकारत्वम् ? अत आह–पञ्चगीतिसमाश्रयादिति । कास्ताः पञ्च गीतय इत्यपेक्षायामाह-गीतयः पश्चेति । शुद्धा भिन्ना गौडी वेसरा साधारणीति पञ्च गीतयः । भरतेन मागध्यादयश्चतस्रो गीतय उक्ताः । यदाह
"प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
संभाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥" इति । मतङ्गेन सप्त गीतय उक्ताः
"प्रथमा शुद्धगीतिः स्याद् द्वितीया भिन्नका भवेत् ।
तृतीया गौडिका चैव रागगीतिश्चतुर्थिका ॥ 1द्वतन्ततः.
हदिस्थे.
Scanned by Gitarth Ganga Research Institute