________________
१]
द्वितीयो रागविवेकाध्यायः
पञ्चधा ग्रामरागाः स्युः पञ्चगीतिसमाश्रयात् ।
पञ्च गीतयः
गीतयः पञ्च शुद्धा च भिन्ना गौडी च वेसरा ॥ २ ॥ साधारणीति, शुद्धा स्यादवकैर्ललितैः स्वरैः । भिन्ना वकैः स्वरैः सूक्ष्मैर्मधुरैर्ग मकैर्युता ॥ U
विवेको विभागः । विभाग इत्युपलक्षणम्, लक्षणस्यापि वक्ष्यमाणत्वात् । येन रागतत्त्वज्ञानं, तत्कथयतीत्यर्थः । तत्र रागलक्षणं रागशब्दव्युत्पत्तिश्च कथिता मतङ्गेन
८८
' योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः । रञ्जको जनचित्तानां स रागः कथितो बुधैः ॥ रञ्जनाज्जायते रागो व्युत्पत्तिः समुदाहृता । अश्वकर्णादिवदूढो यौगिको मण्डपादि ( वापि मन्थ ) वत् ॥ "
इति । संगीतसमयसारकारेणाप्युक्तम् - " रञ्जयतीति रागः ।
स्वरवर्णविशिष्टेन ध्वनिभेदेन वा पुनः ।
रज्यते येन सच्चित्तं स रागः संमतः सताम् ॥”
इति । ते च रागा दशप्रकाराः -- ग्रामरागाः, उपरागाः, रागाः, भाषा, विभाषा, अन्तरभाषा, रागाङ्गाणि, भाषाङ्गाणि, क्रियाङ्गाणि, उपाङ्गानीति ॥ १ ॥
इत्याह
( क ० ) तत्रादौ ग्रामरागाः पञ्चविधगीतिभेदाश्रयणेन पञ्चा - पञ्चधा ग्रामरागाः स्युरिति । ताः पञ्च गीतीरुद्दिशति-—- गीतय इति 1 क्रमेण तासां लक्षणान्याह - शुद्धा स्यादित्यादिना । अवक्रैः ऋजुभिः, समैरित्यर्थः । ललितैर्मनोहरैः स्वरैर्युक्तत्वात्तदर्थतया शुद्धा स्यात् । वक्रैर्विषमैः, अत एव सूक्ष्मैर्युतच्चारितैः स्वरैर्मधुरैर्गमकैश्च वक्ष्यमाणेषु पञ्चदशसु गमकेषु वक्रसूक्ष्मस्वरोचितत्वान्मधुरैः श्राव्यैः स्फुरितादिभिर्गमकैश्च युता, वक्रसूक्ष्मस्वरत्वाद्भिन्नत्यर्थः । गाढैर्निबिडैः, त्रिस्थानगमकैर्मन्द्र
Scanned by Gitarth Ganga Research Institute