________________
संगीतरत्नाकरः
[प्रकरणम् संक्षिप्तत्वं नाम ग्रन्थान्तरेषु " षड्जग्रहांशन्यासः” इत्याद्युक्तेरत्र “साद्यन्ता" इत्यादिनाभिधानम् । यथायोगमुभयथापि योजनीयम् । एवंभूततयात्मना क्रियमाणेन ग्रन्थेन निखिलं समस्तं रागविवेकम् , रागाणां दशविधानां विवेकोऽसंकीर्णतया परस्परभेदः; तं रचयति निबध्नाति । अमुमित्यनुपदं वक्ष्यमाणस्य बुद्ध्यारूढतया पुरोवर्तिना रूपेण निर्देशः । निःशङ्कोऽहमनुपदमेव रागविवेकं रचयामीति संसृष्टोऽर्थः । दशविधानामेतेषां रागत्वं रञ्जनात् । रञ्जनं च, रज्यते येन जनचित्तमिति करणव्युत्पत्त्या वा, जनचित्तानि रञ्जयतीति कर्तरि वा "अकर्तरि च कारके संज्ञायाम् ” इति सूत्रेण कर्तर्यप्यभ्यनुज्ञानादुभयथापि घटत इत्यभिसंधायोक्तं मतङ्गेन । यथा
" स्वरवर्णविशिष्टेन ध्वनिभेदेन वा पुनः ।
रज्यते येन सच्चित्तं स रागः संमतः सताम् ॥ अथवा,
योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां स रागः कथितो बुधैः ॥" इति । स एव रागशब्दस्य रूढत्वादिना प्रयोगमप्याह
" अश्वकर्णादिवढूढो यौगिको वापि मन्थवत् ।
योगरूढोऽथवा रागो ज्ञेयः पङ्कजशब्दवत् ॥" इति । रागशब्दस्य केवलरूढत्वं तु येन केनचिद्रागेण यः कश्चन न रज्यते, तं प्रति तस्यारञ्जकत्वात् 'अयं रागो मह्यं न रोचते' इति तद्वाक्यप्रयोगे द्रष्टव्यम् ॥१॥
(सं०) रागविवेकं वक्तुं प्रतिजानीते-अथेति । निःशङ्क इति बिरुदालंकृत: श्रीशा देवः संक्षिप्तप्रसन्नपदसमूहेन ग्रन्थेन रागविवेकं करोति । रागाणां
Scanned by Gitarth Ganga Research Institute