________________
संगीतरत्नाकरः [प्रकरणम् गौडपश्चमकः षड्जे मध्यमे गौडकैशिकः । इति गौडास्त्रयः, षड्जे टक्कवेसरषाडवौ ॥ ११ ॥ ससौवीरौ मध्यमे तु बोहमालवकैशिकौ । मालवः पश्चमान्तोऽथ द्विग्रामष्टक्ककैशिकः ॥ १२ ॥ हिन्दोलोऽष्टौ वेसरास्ते, सप्त साधारणास्ततः। षड्जे स्याद्रूपसाधारः शको भम्माणपश्चमः ॥ १३ ॥ मध्यमे नर्तगान्धारपश्चमौ षड्जकैशिकः। द्विग्रामः ककुभस्त्रिंशद् ग्रामरागा अमी मताः ॥१४॥ चतुःषष्टयधिकं ब्रूते शाङ्गी श्रीकरणाग्रणीः इत्यन्तेन ग्रन्थसंदर्भेण । षड्जग्रामे समुत्पन्नः षड्जग्रामसमुत्पन्न इति शुद्धकैशिकमध्यमादीनां त्रयाणां पृथग्विशेषणम् । तेषु षड्जग्रामसंज्ञकस्तृतीयो रागः । ग्रामे तु मध्यम इति । मध्यमग्राम इत्यर्थः । मालवः पश्चमान्त इति । पञ्चमशब्दान्तो मालवो मालवपञ्चम इत्येको रागः । द्विग्राम इति टक्कैशिकस्य हिन्दोलस्य च विशेषणम् । तयोमिद्वयसंबद्धजात्युत्पन्नत्वे सति साक्षाद् ग्रामद्वययुक्तत्वादिति भावः । पुनर्द्विग्राम इति ककुभविशेषणम् । ग्रामरागा इति । ग्रामयोर्जातिव्यवधानेनोत्पन्नानामपि भाषारागाद्यपेक्षया व्यवधानाल्पत्वादेतेषां ग्रामरागत्वव्यपदेशः । यथाह मतङ्गः- " नन्वेते रागा ग्रामविशेषसंबद्धा इति कुतोऽयं विशेषलाभः ? उच्यते-भरतवचनादेवासौ विशेषो लभ्यते । तथा चाह भरतमुनिः—'जातिसंभूतत्वाद् ग्रामरागाणाम्' इति ; 'यत्किंचिद्गीयते लोके तत्सर्वं जातिषु स्थितम् ' इति वचनाच्च ” इति ।। ८-१४ ॥
(सं०) ग्रामविभागेन शुद्धादिरागान्विभजते-षड्जप्रामेति । शुद्धकैशिकमध्यमः शुद्धसाधारित: षड्जग्राम इत्येते त्रयः शुद्धाः षड्जग्रामे समुत्पन्नाः । पञ्चमो मध्यमप्रामः षाडवः शुद्धकैशिक इति चत्वारः शुद्धाः
Scanned by Gitarth Ganga Research Institute