SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रबन्धाध्यायः २३५ त्रेता दशविधा प्रोक्ता मङ्गला रतिमङ्गला ॥ ८३ ॥ कलिका तनुमध्या च वीरश्रीजयमङ्गला । विजया रत्नमाला च गुरुमध्या रतिप्रभा ॥ ८४ ॥ आद्याक्षरेण ग्रहणं प्रथमादेरिहेष्यते । 'द्वित्रिणां प्रद्विचानां प्रद्विपानां प्रचत्रिणाम् ॥ ८५ ॥ त्रयविकारात् त्रेता ; गणचतुष्टयविकाराश्चतुरा; गणपञ्चकविकाराद्वाणेति । तत्र वासव्या भेदान् कथयति - प्रत्येकमिति । वासवी पञ्चप्रकारा - प्रथमगण विकाराद्रामा ; द्वितीयगण विकारान् मनोरमा; तृतीयगण विकारादुन्नता; चतुर्थगण विकारात् शान्तिः; पञ्चमगण विकारान्नागरेति । गणद्वयविकारवत्याः संगताया भेदान् कथयति - रमणीयेति । संगता दशप्रकारा भवति । तदेव दशविधत्वं स्फुटयति-आद्यस्येति । प्रथमस्य गणस्य द्वितीयतृतीयचतुर्थपञ्चमगणसहितस्य विकारेण चत्वारो भेदाः । द्वितीयगणस्य तृतीयचतुर्थपञ्चमगणसहितस्य विकारेण त्रयो भेदाः । तृतीयस्य गणस्य चतुर्थपञ्चमगणसहितस्य द्वौ भेदौ । चतुर्थपञ्चमगणविकारेणैको भेदः । तासां रमणीयादीनां दशानामेवंविधं लक्षणम् । ततश्चायमर्थ:--प्रथमद्वितीयगण विकारेण रमणीया; प्रथमतृतीयगणविकारेण विषमा; प्रथमचतुर्थगणविकारेण समा; प्रथमपञ्चमगणविकारेण लक्ष्मीः ; द्वितीयतृतीयगणविकारेण कौमुदी ; द्वितीयचतुर्थगण विकारेण कामोत्सवा ; द्वितीयपञ्चमगणविकारेण नन्दिनी; तृतीयचतुर्थगणविकारेण गौरी; तृतीय - पञ्चमगणविकारेण सौम्या; चतुर्थपञ्चमगण विकारेण रतिदेहेति ॥ ७७-८३ ॥ ( क ० ) त्रेता दशविधेत्यादि । प्रद्वित्रिणां प्रथमद्वितीयतृतीयानां भगणानां विकृतेर्मङ्गला नाम त्रेताभेदः । प्रद्विचानां विकृतेः रतिमङ्गला । प्रद्विपानां विकृतेः कलिका | प्रचत्रिणां विकृतेस्तनुमध्या । प्रत्रिपाणां विकृतेवीरश्रीः । प्रचपानां विकृतेर्जयमङ्गला । द्वित्रिचानां विकृतेर्विजया । द्वित्रिपाणां विकृते रत्नमाला | चद्विपानां विकृतेर्गुरुमध्या । चत्रिपाणां विकृते रतिप्रति 1 अत्र त्रिशब्दः तृतीयोपलक्षकः । दीर्घाभावः यथाकथंचिन्निर्वाह्यः । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy