________________
२३४
संगीतरत्नाकरः रमणीया च विषमा समा लक्ष्मीश्च कौमुदी । कामोत्सवा नन्दिनी च गौरी सौम्या ततः परम् ॥८॥ रतिदेहेति दशधा संगता गदिता बुधैः। आद्यस्य स्युर्द्वितीयादिसहितस्य विकारतः॥ ८१॥ चतस्रस्ता द्वितीयस्य तृतीयादियुजस्त्रयम् । विकारेण तृतीयस्य चतुर्थादियुजो द्वयम् ॥ ८२ ॥
तुर्यपश्चमयोस्त्वेका लक्ष्म तासां क्रमादिति । क्रमेण योजनीयम् । पञ्चमावधीत्यनेनान्तिमस्य गणस्य विकारनिषेधो गम्यते । तस्यापि विकारे हि नादावत्यादीनां प्रत्यभिज्ञैव न भवेदिति भावः । तस्माद्यः पूर्व जातिषु 'विकृता न्यासवर्गतल्लक्ष्महीना भवन्त्यमूः' इत्यत्र न्याय उक्तः, सोऽत्राप्यनुसंधेयः । यद्यपि नादावत्यामन्तिमस्य गणस्य विकारो न संभवत्येव, तथापि हंसावतीनन्दावत्योः सगणजगणयोरन्तिमयोर्विकारसंभवात्तत्प्रतिषेधार्थ सामान्येनोक्तमिति मन्तव्यम् । रमणीयेत्यादि । आद्यस्य स्युर्द्वितीयादिसहितस्य विकारतः चतस्र इति । आद्यद्वितीययोर्भगणयोर्विकाराद्रमणीया नाम संगताभेदः; आद्यतृतीययोर्विकाराद्विपमा ; आद्यचतुर्थयोविकारात् समा; आद्यपञ्चमयोर्विकाराल्लक्ष्मीरिति चतस्रः। द्वितीयस्य तृतीयादियुजस्त्रयमिति । द्वितीयतृतीययोर्विकारात् कौमुदी; द्वितीयचतुर्थयोर्विकारात् कामोत्सवा; द्वितीयपञ्चमयोर्विकारान्नन्दिनीति तिस्रः । विकारेण तृतीयस्य चतुर्थादियुजो द्वयमिति । तृतीयचतुर्थयोर्विकारेण गौरी: तृतीयपञ्चमयोर्विकारेण सौम्येति द्वे । तुर्यपञ्चमयोर्विकारादतिदेहा। एवं दश संगताभेदाः ॥७७-८३३॥ ___(सं०) विकृतान् निरूपयति-शुद्धाः स्युरिति । आद्याः शुद्धास्तिस्रः नादावतीहंसावतीनन्दावत्यः पूर्वोक्तगणविकारतो विकृता भवन्ति । तासां प्रत्येक पञ्च भेदा भवन्ति । एकगणविकाराद्वासवी ; गणद्वयविकारात् संगता; गण
Scanned by Gitarth Ganga Research Institute