________________
चतुर्थः प्रबन्धाध्यायः
२३३ शुद्धाः स्युर्विकृतास्तिस्र आद्या गणविकारतः। वासवी संगता त्रेता चतुरा बाणसंज्ञिका ।। ७७ ॥ एकद्वित्रिचतुष्पञ्चविकारात् पञ्चधेति ताः। प्रत्येकं वासवी पञ्चविधा रामा मनोरमा ॥ ७८ ॥ उन्नता शान्तिसंज्ञा च नागरेत्युच्यते वुधैः ।
गणानां प्रथमादीनां विकारात् पञ्चमावधि ॥ ७९ ॥ वाराह्याः प्रीतौ विनियोगः । सर्वास्वपि 'अनौ खण्डद्वयम्' इत्यादि पूर्वोक्तसामान्यलक्षणं ज्ञातव्यम् । विशेषमात्रमत्रोक्तमिति । जातिकल्पनं च तत्तज्जातीयस्यात्र योऽतिशयः, तद्विधातृत्वप्रतिपादनार्थम् । बहुधेति । आसां लक्षणसंकरात् संकीर्णा बहवो भेदा भवन्ति । ते लक्ष्येऽप्रसिद्धत्वान्नोक्ताः ॥६६-७६॥
(क०) शुद्धाः स्युर्विकृतास्तिस्र इत्यादि । आद्यास्तिस्रो नादावती हंसावती नन्दावती च गणविकारतः शुद्धतावस्थायां स्वस्वोक्तगणानां विकारतः अन्यथाभावात् । अन्यथाभावश्च प्रकृतगणस्थितगुरुलघुविपर्यासेन प्रकृतगणस्य गणान्तरत्वप्राप्तिः। तत्र नादावत्यां भगणस्य विकाराज्जगणो वा सगणो वा भवति । हंसावत्यां रगणस्य विकारात्तगणो वा यगणो वा भवति । नन्दावत्यां तगणस्य विकाराद्यगणो वा रगणो वा भवति । एकद्वित्रिचतुष्पञ्चविकारादिति । तत्र नादावत्यांतावत् पञ्चसु गणेषु मध्ये एकभगणविकारे सति वासवी नाम विकृता भवति । भगणद्वयविकारे संगता नाम । भगणत्रयविकारे त्रेता नाम । भगणचतुष्टयविकारे चतुरा नाम । भगणपञ्चकविकारे बाणसंज्ञिका । प्रत्येकमिति पूर्वेण संबन्धः । नादावती हंसावती नन्दावती चेत्यर्थः । वासवी पञ्चविधेत्यादि । गणानां प्रथमादीनां विकारात् पश्चमावधीति । तत्र प्रथमगणविकारात् रामा नाम वासवीभेदः, द्वितीयगणविकारान्मनोरमा, तृतीयगणविकारादुन्नता, चतुर्थगणविकारात् शान्तिः, पञ्चमगणविकारान्नागरेति च
30
Scanned by Gitarth Ganga Research Institute