________________
२३२
संगीतरत्नाकरः बन्धपारुप्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥" इति तद्विशेषलक्षणानि ।
पाञ्चालादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदोऽवगन्तव्यः ॥ ६६-७६ ।।
(सं०) तत्रेति । तत्र वर्णगणमात्रागणयोर्मध्ये वर्णगणैर्जाता गणैला उक्ता। सा च त्रिविधा-शुद्धा, संकीर्णा, विकृता चेति । तत्र शुद्धा चतुर्विधानादावती, हंसावती, नन्दावती, भद्रावतीति । गणादीति । वक्ष्यमाणो गणादिनियम आसां नन्दावत्यादीनामधौ खण्डद्वयसंबन्धी नियमो ज्ञातव्यः । खण्डद्वयानन्तरं पदेषु गणादिनियमो नास्ति । स्वेच्छया विरचनमित्यर्थः । नादावी लक्षयति-नादावतीति । पञ्चभिर्भगणैरन्ते नगणेनान्वितैः प्रथम खण्डद्वयं कर्तव्यम् । टक्करागः । मण्ठताल: । ऋग्वेदादुत्पत्तिः। सितः शुभ्रो वर्णः। विप्रत्वं ब्राह्मणत्वजातिः । वृत्तयो रीतयश्च नृत्ताध्याये वक्ष्यन्ते । तत्र कैशिकी वृत्तिमाश्रिता । पाञ्चाली रीतिर्यस्याः सा पाश्चालरीतिः । सरस्वत्याः प्रीतिकारिणी। शृङ्गारो रसः । हंसावती लक्षयति-रगणैरिति । पञ्चभी रगणैरन्ते सगणेनान्वितैः खण्डद्वये क्रियमाणे हंसावत्येला भवति । एतस्यां द्वितीयतालः । हिन्दोलो रागः । क्षत्रियत्वं जातिः । यजुर्वेदादुत्पत्तिः । लोहितो वर्णः । आरभटी वृत्तिः । लाटी रीतिः । रौद्रो रसः । चण्डिकायाः प्रीतौ विनियोगः । नन्दावी लक्षयति-पञ्चभिरिति । पञ्चभिस्तगणैरन्ते जगणेनान्वितैः खण्डद्वये क्रियमाणे नन्दावत्येला भवति । एतस्यां प्रतितालस्ताल: । मालवकैशिको रागः । सामवेदादुत्पत्तिः । पीतो वर्णः । वैश्यत्वं जाति: । सात्वती वृत्तिः । गौडी रीतिः । इन्द्राण्याः प्रीतौ विनियोगः । वीरो रसः । भद्रावती लक्षयतिभद्रावतीति । पञ्चभिर्मगणैरन्ते यगणेनान्वितैः खण्डद्वये क्रियमाणे भद्रावत्येला भवति । एतस्यां कङ्कालस्ताल: । ककुभो रागः । अथर्ववेदादुत्पत्तिः । कृष्णो वर्णः । शूद्रत्वं जातिः । भारती वृत्तिः । वैदर्भी रीतिः । बीभत्सो रसः ।
Scanned by Gitarth Ganga Research Institute