________________
संगीतरत्नाकरः
प्रत्रिपानां प्रचपानां द्वित्रिचानां द्विपत्रिणाम् । चद्विपानां चत्रियाणां विकृतेः स्युः क्रमादिमाः ॥ ८६ ॥ त्यक्त्वैकैकं गणं त्वाद्याच्चतुर्णां स्याद्विकारतः । चतुरा पञ्चधा तत्र प्रथमा तूत्सवप्रिया ॥ ८७ ॥ महानन्दाथ लहरी जया च कुसुमावती । आद्यात् पञ्चविकारेण बाणा स्यात् पार्वतीप्रिया ॥८८॥ प्रत्येकमेकत्रिंशत्ते नादावत्यादिषु स्थिताः । भेदास्त्रिनवतिर्युक्ता अन्ये पञ्चदश त्विमे ॥ ८९ ॥ सावित्री पावनी वातसावित्री त्रिविधा मता । संगता सवितुः क्षिप्ते पवनस्य गणे क्रमात् ॥ ९० ॥
२३६
क्रमोऽनुसंधेयः । त्यक्त्वैकैकमित्यादि । आद्यादिति ल्यब्लोपे पञ्चमी । आद्यमारभ्येत्यर्थः। एकैकं गणं त्यक्त्वा विकृतमकृत्वेत्यर्थः । चतुर्णाम् ; पञ्चसु मध्ये एकैकं त्यक्त्वा तदन्येषां चतुर्णां विकारतश्चतुरा पञ्चधा भवति । तत्राद्यं भगणं त्यक्त्वा द्वितीयादीनां चतुर्णां विकारादुत्सवप्रिया नाम चतुराभेदः । द्वितीयं त्यक्त्वेतरगणविकारान्महानन्दा | तृतीयं त्यक्त्वेतरगणविकाराल्लहरी | चतुर्थं त्यक्त्वेतरगणविकाराज्जया । पञ्चमं त्यक्त्वेतरगणविकारतः कुसुमावतीति । आद्यात् पञ्चेत्यादि । आद्यमारभ्य पञ्चानां गणानां विकारेण पार्वतीप्रिया बाणसंज्ञिता । प्रत्येकमेकत्रिंशदिति । यथा भगणविकारान्नादावतीभेदाः, तथा रगणविकाराद्धंसावतीभेदा एकत्रिंशत् । तथा तगणविकारान्नन्दावतीभेदा अप्येकत्रिंशत् । अन्ये पञ्चदश त्विमे इति । अन्ये ; उक्तेभ्यस्त्रिनवतिभेदेभ्योऽन्ये तु इमे वक्ष्यमाणाः । नादावत्यां तावद्गुणद्वयविकारवती संगता । भगणद्वयस्य स्थाने सवितुर्गणे सवितृदेवताके जगणे क्षिप्ते ; भगणविकारत्वेन जगणद्वये न्यस्त इत्यर्थः ; तदा सावित्री नाम संगता भेदः । तथा पवनस्य गणे सगणे
Scanned by Gitarth Ganga Research Institute