________________
२२५
चतुर्थः प्रबन्धाध्यायः
२२५ तोऽन्तलो मध्यगो जः स्याद्गादिर्भस्त्रिलघुस्तु नः ।
इति वर्णगणाः
वर्णगणदेवताः 'इत्येषां देवता भूमिजलाग्निमरुतोऽम्बरम् ।। ५८ ॥ सूर्यचन्द्रसुराधीशाः क्रमात् कुर्युः फलानि ते । श्रीवृद्धिनिधनस्थानभ्रंशनिर्धनतारुजः ॥ ५९॥ कीर्तिमायुश्च वर्ण्यस्य श्लोकगीतादियोगतः।
इति वर्णगणदेवताः मगण इत्यर्थः । अत्र गुरुलध्वोराद्याक्षराभ्यां तयोः संज्ञा वेदितव्या । पूर्वलो य इति । पूर्वलः पूर्व लघुर्यस्मिन्नसौ पूर्वलः । अनेनैव द्वितीयतृतीयौ गुरू इति गम्यते । तेन वर्णत्रयात्मकेषु गणेप्वेकस्मिन् गुरुलध्वोरेकेन विशेषिते तदितरयोस्तदितररूपता द्रष्टव्या । श्लोकगीतादियोगत इति । श्लोकगीतयोरादावुपक्रमे योगः प्रयोगः, तस्मात् ; श्लोके वा गीते वा प्रथमोच्चार्यमाणत्वादित्यर्थः ॥ ५३-६०॥
(सं०) एला विभजते-गणमात्रेति । एलाश्चतुर्विधा भवन्ति-गणैला, वणेला, मात्रैला, देशैलेति । तत्र गणैलां लक्षयितुं पूर्व गणं लक्षयति-गण इति । समूहो गण इत्युच्यते । प्रकरणालघुगुरुमात्राणामिति लभ्यते । स गणो द्विप्रकार:-वर्णगणो मात्रागण इति । वर्णो द्विविधः-लघुर्गुरुरिति । तत्र को लघुः ? को वा गुरु: ? इत्यपेक्षायामाह-अनुस्वारसंयुत इति । अनुस्वारेण संयुतः ; विसर्गसंयुतः; व्यञ्जनान्तो हलन्तः ; दीर्घ आकारादिस्वरः; युक्त: संयुक्तः परो वर्णो यस्य स युक्तपरः; एते गुरवः । वा पदान्त इति । पदान्ते वर्तमानो लधुरपि वर्णो विकल्पेन गुरुर्भवति। एतलक्षणहीनो वर्णो लघुरित्युच्यते । उक्तेभ्यो
1एतेषामिति सुधाकरपाठः।
29
Scanned by Gitarth Ganga Research Institute