________________
२२६
संगीतरत्नाकरः
वर्णवर्गदेवताः सोमो भौमो बुधो जीवः शुक्रः सौरी रविस्तमः ॥६०॥ क्रमादकचटानां तपयशानां च देवताः। वर्गाणां स्युः फलान्येषामायुः कीर्तिरसद्यशः ॥ ६१ ॥ संपत् सुभगता कीर्तिमान्द्यं मृत्युश्च शून्यता। प्रयोगे श्लोकगीतादौ स्तुत्यस्योक्तानि सूरिभिः ॥२॥
इति वर्णवर्गदेवताः ऽन्यो वर्णो लघुरिति ज्ञेयः । गुरुर्विमात्र इत्युच्यते । स च लिपौ वक्रो लेखनीयः । लघुर्मात्रिक इत्युच्यते ; स च लिपौ सरलो लेखनीयः । स च लघुर्धवर्ण जिह्वामूलीयोपध्मानीययोः रेफहकारयोोंगे वा परत: स्थिते सति विकल्पेन लघुर्भवति । प्राकृतभाषायाम् ‘ए ओ इं हिं' अमी चत्वारो वर्णाः पदस्यान्ते वर्तमाना विकल्पेन लघवो भवन्ति । अपभ्रंशभाषायां 'हुं हे ऊ ए इं' अमी पञ्च वर्णाः पदमध्ये वर्तमाना विकल्पेन लघवो भवन्ति । तत्रेति । तत्र वर्णगणमात्रागणयोर्मध्ये वर्णगणास्त्रिभिर्वर्गर्भवन्ति । स चाष्टविध:मगणः, यगणः, रगणः, सगणः, तगणः, जगणः, भगणः, नगण इति । मस्त्रिगुरिति । गुरुत्रयसंयुक्तो मगणः; यथा-555; पूर्व लघुर्यस्य ; अर्थात् पश्चाद् गुरुद्वयम् ; स यगण: ; यथा-155; मध्ये ल: लघुर्यस्यासौ मध्यलः; अर्थादादावन्ते च गुरुरिति लभ्यते ; स रगणः ; यथा-515; अन्ते गो गुरुर्यस्यासावन्तगुः; अर्थादादौ लघुद्वयं लभ्यते ; स सगणः ; यथा-05; अन्ते लो लघुर्यस्य सोऽन्तलः ; अर्थादादौ गुरुद्वयं लभ्यते ; स तगण: ; यथा-55); मध्ये गो गुरुय॑स्यासौ मध्यगः; अर्थादादावन्ते च लघुरिति लभ्यते ; स जगणः ; यथा-15); गो गुरुरादौ यस्यासौ गादि ; अर्थादन्ते लघुद्वयं लभ्यते ; स भगण: ; यथा-50 ; लघुत्रयवान् नगणः ; यथा ॥ ; इति । एतेषामष्टानां क्रमेण देवताः कथयति-एतेषां देवता इति । फलान्याह-क्रमात् फुर्युरिति । एतेऽष्टौ गणाः श्लोकगीतादिप्रयोगाद्वर्ण्यस्य वर्णनीयस्य नायकस्य क्रमालक्ष्म्यादीनि फलानि जनयन्ति । अयमेवार्थोऽन्यत्रोक्तः ; यथा
Scanned by Gitarth Ganga Research Institute