________________
२२४
संगीतरत्नाकरः
एलाभेदा:
गणमात्रावर्णदेशविशिष्टास्ताश्चतुर्विधाः । गणः समूहः स द्वेधा वर्णमात्राविशेषणात् ॥ ५३ ॥ गुरुर्लघुरिति द्वेधा वर्णोऽनुस्वारसंयुतः । सविसर्गो व्यञ्जनान्तो दीर्घो युक्तपरो गुरुः ॥ ५४ ॥ वा पदान्ते त्वसौ वक्रो द्विमात्रो मात्रिको लघुः । ऋजुलिपौ के पेच रहोर्योगे स वा लघुः ॥ ५५ ॥ ए ओ ई हिं पदान्ते वा प्राकृते लघवो मताः । पदमध्येऽप्यपभ्रंशे हुं हे ऊ ए इमित्यमी ॥ ५६ ॥ इति भेदाः
वर्णगणा:
तत्र वर्णगणो वर्णैस्त्रिभिरष्टविधश्व सः । मस्त्रिगुः पूर्वलो यः स्यान्मध्यलो रोऽन्तगुस्तु सः ॥५७॥
यस्यासौ दीप्तः । स्थायिनि वर्गे स्थितः समाहितः । अक्षरनादानामावृत्त्या वीप्सया पुनः पुनरुच्चारणेनोपलक्षितोऽग्राम्यः | अक्षरध्वनिमूर्छनानां कोमलत्वेन मार्दवेनोपलक्षितः सुकुमारः । पदानां मन्द्रमध्यतारस्थानां स्वराणाम् आदिशब्देनाक्षरस्थानां प्रसन्नतया युक्तः प्रसन्न इत्युच्यते । ओजसा समास भूयस्त्वेन बहुलो व्याप्त ओजस्वीत्युच्यते । एभिः सर्वैरिति । एभिः पूर्वोक्तलक्षणरूपैः समस्तैर्गुणैरुतैलाः श्रोतुराकर्णयितुः प्रयोक्तुर्मातुः कर्तुर्वा धर्मादिपुरुषार्थदायिन्यः || ४८-५२ ॥
1
(क०) एलासामान्यलक्षणमुक्त्वा तद्भेदान् दर्शयितुमाह – गणमात्रे - त्यादिना । तत्र गणस्य सामान्यलक्षणमाह-गणः समूह इति । वर्णगणानां लक्षणमाह-मस्त्रिगुरिति । त्रिगुस्त्रयो गुरवो यस्मिन्निति त्रिगुः
Scanned by Gitarth Ganga Research Institute