________________
चतुर्थः प्रबन्धाध्यायः
२२३ सुकुमारो वर्णनादमूर्छनाकोमलत्वतः । प्रसन्नः स्यात् पदस्थानस्वरादीनां प्रसादतः ।। ५१ ॥ ओजोबहुल ओजस्वीत्येभिः सर्वगुणैर्युताः। एलाः श्रोतुः प्रयोक्तुश्च धर्मकामार्थसिद्धिदाः ॥५२॥
इति एलापदप्राणाः
रीत्योत्तरोत्तरपदादिमत्त्वेनोच्चारणम् । एवं तत्तदक्षरगतानामेव स्वराणामुच्चारणं नादानामावृत्तिः । एवं द्विविधया आवृत्त्या निप्पन्नोऽग्राम्यो नाम प्राणो ध्रुवखण्डादिमे मध्यलययुक्ते चित्राख्ये पदे योजनीयः । सुकुमार इत्यादि । वर्णनादमूर्छनाकोमलत्वत इति । वर्णानामक्षराणां नादानां स्वराणां मूर्छनानां तानानाम् ; मूर्छनाविकाररूपत्वादुपचारेण तथा व्यपदेशः ; एतेषां वर्णादीनां कोमलत्वतः सुकुमार इत्यर्थः । अयं वासवाख्ये मध्यलययुक्त ध्रुवखण्डस्य द्वितीये पदे योजनीयः । प्रसन्नः स्यादिति । पदानां तावत् प्रसादोऽविलम्बेनार्थप्रकाशः । स्थानादीनां तु प्रसन्नत्वं विविक्तस्वरूपत्वम् । अत्रादिशब्देन तानगमकादयो गृह्यन्ते। अयं प्राणो ध्रुवखण्डान्तिमे विलम्बितयुक्ते मृदुसंज्ञके पदे योजनीयः । ओज इत्यादि। ओजोवहुल इति । ओजो नाम समासभूयस्त्वम् । तच्च पदेषु तानेप्वतानेप्वपि द्रष्टव्यम् । तेन बहुल: प्रचुरः प्राण ओजस्वीत्यन्वयः । अयमाभोगात्मनि सुचित्रसंज्ञके षोडशे पदे योजनीयः ॥ ४८-५२॥
(सं०) तानेव प्राणान् लक्षयति-समान इति । अल्पान्यक्षराणि ध्वानो नादश्च यस्मिन् म तथाविध: समान इत्युच्यते । यस्त्वल्पेन नादेन युक्तया अल्पमूर्छनया युक्तः स मधुर इत्युच्यते । अल्पा मूर्छना षट्स्वरादि । निबिडानि घनान्यक्षराणि यस्मिन् स सान्द्रः। यस्त्वल्पनादः स च तारगति: तारव्यापकः स कान्तः कान्तध्वनिः रमणीयनादः । दीप्तस्तीवो नादो
Scanned by Gitarth Ganga Research Institute