________________
संगीतरत्नाकर:
अल्पध्वनिस्तारगतिः कान्तः कान्तध्वनिर्मतः ॥ ४९ ॥ दीप्तस्तु दीप्तनादः स्यात् स्थायिस्थस्तु समाहितः । अग्राम्योऽक्षरनादानामावृत्त्या समुदाहृतः ॥ ५० ॥
२२२
तानीकरणाद्भवति । तानी करणं नाम पूर्वमतानस्य तानत्वसंपादनम् । तच्च तानत्वम|दिमस्वरमुच्चार्यारोहेण वावरोहेण वा क्रमेण मध्यस्थितानां स्वराणां स्पर्शमात्रेणान्तिमस्वरोच्चारणे सति भवतीति मन्तव्यम् । अत एव स्वल्पनादयेति विशेषणम् । तस्यैव स्पष्टीकरणार्थमयं प्राणः प्रथमद्वितीयाङ्घ्रिगतयोर्विलम्बितमानयोः कान्तसुमतिसंज्ञयोः पल्लवपदेप्यादिमयोः पदयोर्योजनीयः । सान्द्रस्त्वित्यादि । निविडाक्षर इत्यनेनात्र धात्यपेक्षया मातोराधिक्यं प्रतीयते । अल्पवनिरिति; मात्वपेक्षया धातोरल्पत्वादिति भावः । तारगतिरिति । तारस्थाने गतिः प्रवेशो यस्येति । अनेन प्रथमद्वितीयाङ्घ्रिगतयोर्विलम्बितमानयोः पल्लवमध्यस्थितयोर्जितशोभिसंज्ञयोः पदयोः पूर्वपदापेक्षया किंचिदुच्चत्वेन सान्द्रप्राणाश्रयत्वं कर्तव्यमित्यर्थः । कान्त इत्यादि । कान्तध्वनिरिति तस्य लक्षणम् । ध्वनेः कान्तत्वं नाम रक्त्यतिशययुक्तत्वम् । अङ्घ्रिद्वयपल्लवान्तिमयोद्द्रुतमानयोमत्तसुशोभिसंज्ञयोः पदयोः कान्तो नाम प्राणो योजनीयः । दीप्तस्त्वित्यादि । दीप्तनादः ; तारस्वरत्वात् पूर्णस्वरत्वाचेत्यर्थः । अयं प्राणोऽङ् घ्रित्रयादिमेषु द्विखण्डात्मकेषु कामविकारिगीतकसंज्ञकेषु त्रिषु पदेषु योजनीयः । स्थायिस्थस्त्वित्यादि । तुशब्दो भिन्नक्रमः । समाहितस्त्वित्यन्वयः । स्थायिस्थ इति लक्षणम् । स्थायिनि वर्णे तिष्ठतीति स्थायिस्थः । पूर्वप्रयोगद्वयादन्यप्रयोगात्मके ह्युचितसंज्ञके द्वादशे पदे तत्र तत्रोचितान् स्थायिनः कृत्वा अक्षरवर्जितायां गमकालप्तौ कृतायां समाहिताख्यः प्राणस्तत्र योजितो भवति । अग्राम्य इत्यादि । अक्षरनादानामावृच्येति । तत्राक्षराणामावृत्तिस्तावत् गीते वाक्यावयवेषु पदेषु यान्यक्षराणि तेषां मध्ये पूर्वपूर्वपदान्तिमयोर्द्वयोस्त्रयाणां वाक्षराणां चक्रवाल
1
Scanned by Gitarth Ganga Research Institute