________________
चतुर्थः प्रबन्धाध्यायः
२२१ समानोऽल्पाक्षरध्वानो मधुरः स्वल्पनादया ॥ ४८ ॥
अल्पमूर्छनया युक्तः सान्द्रस्तु निबिडाक्षरः। मिति । एलानां बहवो भेदा भवन्ति । ग्रन्थविस्तरभयात्तेषु भेदेषु कियन्त एव भेदा निरूप्यन्ते व्युत्पत्तये एलास्वरूपज्ञानाय । स्वरूपे परिज्ञाते भेदान्तरमूहयितुं शक्यत इत्यर्थः । एलावर्णेषु देवता: कथयति-अकार इति । अनेनैलायाः प्राशस्त्यं प्रतिपादितं भवति । एलायाः षोडशानां पदानां नामानि कथयति-कामवदिति । एलायां षोडश पदान्येवम्-उद्गाहे पादत्रयम् । तत्र प्रथमपादे खण्डद्वयस्य द्वे पदे | पल्लवपदानि त्रीणि । एवं पञ्च पदानि । द्वितीयपादेऽप्येवं पञ्च पदानि । एवं दश पदानि । तृतीयपादे पल्लवपदत्रयाभावाद् द्वे पदे । एवं पादत्रयसंयुक्त उद्गाहे द्वादश पदानि । ध्रुवे त्रीणि । आभोगपदं चैकम् । एवं षोडश पदानि । एवं षोडशसु पदेषु देवताः कथयति ~पद्मालयेति । पद्मालयादयश्चामुण्डान्ताः षोडश देवता: पदेषु ज्ञातव्याः । प्राणान् कथयति--समान इति । मान्धात्रादिसुचित्रान्तानि दश पदानि । तेषु समानादयः प्राणा: पदजीवितहेतवो ज्ञातव्याः । तेन हीनं पदं निर्जीवमेव भवति । अलक्षणमित्यर्थः ॥ ४०-४८ ॥
(क०) समानादीनां प्राणानां क्रमेण लक्षणान्याह-समानोऽल्पाक्षरेत्यादिना। अल्पाक्षरध्वानः; अक्षराणि च ध्वानश्चेति द्वंद्वः ; अल्पा अक्षरध्वाना यस्य स तथोक्तः । समानस्याल्पाक्षरत्वं तावत् प्रयोगात्मकपदान्वितत्वात् ; तत्राक्षरवर्जितत्वात् प्रयोगस्याल्पाक्षरत्वं कथं घटत इति चेत् ; उक्तमेवैतत् 'संबोधनपदान्वितः' इति । तृतीयाघ्रिगतप्रयोगलक्षणेन प्रथमद्वितीयाज्रिगतयोः प्रयोगयोः किंचिदसंबोधनपदान्वितत्वमभ्यनुज्ञायत इति । अल्पध्वानत्वं च तस्य प्रयोगाश्रितत्वादेव, प्रयोगेऽपि गमकालप्तिरूपस्वराणां परिपूर्णत्वाभावादिति भावः । समानो नामायं प्राणः प्रथमद्वितीयाविगतयोः प्रयोगात्मकयोर्मन्मथवन्मान्धातृसंज्ञकयोः पदयोर्योजनीयः । मधुर इति । स्वल्पनादया अल्पमूर्छनया युक्तः प्राणो मधुर इत्युच्यते । मूर्छनाया अल्पत्वं
Scanned by Gitarth Ganga Research Institute