________________
२२०
संगीतरत्नाकरः
एलापददेवताः पद्मालया पत्रिणी च रञ्जनी सुमुखी शची। वरेण्या वायुवेगा च वेदिनी मोहिनी जया ॥ ४५ ॥ गौरी ब्राह्मी च मातङ्गी चण्डिका विजया तथा। चामुण्डैलापदेष्वेताः क्रमात् षोडश देवताः॥ ४६॥
इति एलापददेवताः
एलापदप्राणाः समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः। अग्राम्यः सुकुमारश्च प्रसन्नौजस्विनाविति ॥ ४७ ॥ मान्धात्रादिपदेषु स्युः प्राणा दश दशस्विमे।
सुशोभिसंज्ञकानां द्वितीयाघिपल्लवपदानां कान्तजितमत्तसंज्ञकानां प्रथमाधिपल्लवपदानां च तुल्यधातुकत्वात् क्रमेण द्वयोर्द्वयोर्मधुरः सान्द्रः कान्त इति त्रयः प्राणाः । तथा तृतीयाङ्घौ द्विखण्डात्मकप्रथमपदस्य द्वितीयप्रथमाजिगतयोड़ेिखण्डात्मनोः प्रथमपदयोश्च त्रयाणामपि समानधातुकत्वादेक एव दीप्तसंज्ञकः प्राणः । एवमेकादशसु पदेषु पञ्च प्राणाः । ततो द्वादशादिषु पञ्चसु पदेषु यथासंख्यं समाहितादयः पञ्च प्राणा योजनीयाः । अत एव द्वादशपदे प्राणस्य समाहिताख्या स्यात् । न तु साधारणत्वात् । 'प्रयोगोऽन्यो विधातव्यः' इत्यत्रान्य इत्यस्य भिन्नधातुक इति व्याख्यानमुपपन्नम् । एवं पोडशसु पदेषु दश प्राणा वेदितव्याः ॥ ४०-४८ ॥
(सं०) एलासु तालनियमं दर्शयति-मण्ठेति । विवक्षणीयं कथयतित्यागेति । त्याग औदार्यम् । सौभाग्यं लोकानुरागः । आदिशब्देन धार्मिकत्वादि । एतेषां गुणानां वर्णनमेलासूपनिबन्धनीयम् । एलानां भेदान् कथयति-- एलाना
Scanned by Gitarth Ganga Research Institute