________________
चतुर्थः प्रबन्धाध्यायः
२१९ मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन । तालोऽस्यां त्यागसौभाग्यशौर्यधैर्यादिवर्णनम् ॥ ४० ॥ एलानां बहवः सन्ति विशेषास्तेषु केचन । व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ॥ ४१ ॥
इति एलासामान्यलक्षणम्
एलावर्णदेवताः अकारे दैवतं विष्णुरिकारे कुसुमायुधः। लक्ष्मीलेकार एलानामिति वर्णेषु देवताः॥ ४२ ॥
इति एलावर्णदेवताः
एलापदनामानि काममन्मथवत्कान्तजितमत्तविकारिणः। मान्धातृसुमती शोभिसुशोभी गीतकोचितौ ॥ ४३ ॥ विचित्रो वासवमृदुसुचित्रा इति षोडश । नामान्येलापदानां स्युः षोडशानामनुक्रमात् ॥ ४४ ॥
इति एलापदनामानि (क०) तालनियमं दर्शयति-मण्ठद्वितीयेति । गणादिनियमस्यापि वक्ष्यमाणत्वादयं निर्युक्तः प्रबन्धः। 'समानो मधुरः' इत्यादिना दश प्राणानुद्दिश्य, 'इमे दश प्राणा दशसु मान्धात्रादिपदेषु स्युः' इत्यस्याययमभिप्रायः--एते दशैव प्राणा षोडशस्वपि पदेषु वर्तन्त इति । कथम् ? तेषां मध्ये केषांचिदेकधातुकत्वादेकधातुकयोईयोस्त्रयाणां वैक एव प्राणः। तथाहि-द्वितीयाङ्घौ प्रयोगात्मकस्य मान्धातृसंज्ञकद्वितीयपदस्य प्रथमाधौ प्रयोगात्मकस्य मन्मथवत्संज्ञकद्वितीयपदस्य चैकधातुकत्वाद्वयोरप्येक एव समानो नाम प्राणः । तथा सुमतिशोभि
Scanned by Gitarth Ganga Research Institute