________________
२१८
संगीतरत्नाकरः पुनर्गीत्वा ध्रुवे' त्यागो ग्रहस्तु विषमो भवेत् ।
एलासामान्यलक्ष्मैतत् पूर्वाचार्यैरुदीरितम् ॥ ३९ ॥ कर्तव्यः । अयमाभोगः सुचित्रसंज्ञकं षोडशं पदम् । पुनर्गीत्वा ध्रुवे त्याग इति । एतानि षोडश पदानि द्विवारं गीत्वा ध्रुवे त्रयोदशपदस्यादौ त्यागो न्यासः कर्तव्य इत्यनेन गाने नियम उक्तः । ग्रहस्तु विषमो भवेदिति । ग्रहः समातीतानागतभेदेन त्रेधा वक्ष्यते। तुशब्दः प्रबन्धान्तरापेक्षयास्य विशेषद्योतनार्थः। प्रबन्धान्तरेषु ग्रहाणामनियमः ; अत्र नियम इति विशेषः । विषमो भवेदिति । विषमः समादन्यः ; अतीतानागतयोरेकतर इत्यर्थः । वाग्गेयकारेच्छया अतीतो वानागतो वा ग्रहः कर्तव्य इत्युक्तं भवति ॥ ३३-३९॥ .
(सं०) एलासामान्यलक्षणमाह-अङ्घाविति । पूर्वमेकेन धातुना समानगेयेन खण्डद्वयं गातव्यम् । ततः प्रयोगो गमकसंदर्भरूपः । ततोऽनन्तरं पल्लवसंज्ञकं पदत्रयम् । तत्र पदत्रये आद्ये द्वे पदे विलम्बिते कार्ये । तृतीयं पदं द्रुतमानेन कार्यम् । एवंविध एकः पादः । एवमुद्राहे पादत्रयं गातव्यम् । एवं तृतीयपादे पल्लवपदं न कर्तव्यम् । किंतु प्रयोगान्तरं संबोधनपदैर्युक्तोऽन्यः प्रयोगः कर्तव्यः । अमुं तृतीयपदस्थं प्रयोगं सोमेश्वरादयो रत्नावल्यादिग्रन्थकर्तारी मेलापकाख्यमाहुः । एतावतोद्भाहे जाते ध्रुवः कर्तव्यः । कीदृक्कर्तव्य इत्यपेक्षायामाह-स्तुत्यनामाङ्कित इति । स्तुत्यस्य नायकस्य नाम्ना अङ्कितः चिह्नितः । मध्यविलम्बितं पदत्रयं यस्मिंस्तथाविधः । तत्र पदत्रये पदद्वयमेकधातु समानं गेयम् । अपरं तु भिन्नधातु विसदृशं गेयम् । एवंविधध्रुवानन्तरमाभोगः कर्तव्यः । तत्राभोगे वाग्गेयकारेण स्वनाम निक्षेप्तव्यम् | पुनराभोगानन्तरं ध्रुवं गीत्वा त्यागः समापनम् । एलायां च विषम एव ग्रहः । इदं च मेलापकानां सामान्यलक्षणं सर्वास्वेलास्वनुगतं पूर्वाचार्यभरतादिभिरुक्तम् ॥ ३३-३९ ॥
1 ध्रुवमिति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute