________________
चतुर्थ: प्रबन्धाध्यायः
प्रयोगोऽन्यो विधातव्यो न पल्लवपदस्थितिः । अमुं प्रयोगं मेलापं प्राहुः सोमेश्वरादयः ॥ ३६ ॥ स्तुत्यनामाङ्कितो मध्यविलम्बितपदत्रयः । ध्रुवस्ततस्तत्र पूर्वमेकधातु पदद्वयम् ॥ ३७ ॥ भिन्नधातु तृतीयं स्यादाभोगस्तदनन्तरम् । गेयो वाग्गेयकारेण स्वाभिधानविभूषितः ॥ ३८ ॥
२१७
अन्यो विधातव्य इति । पूर्वप्रयोगद्वयापेक्षया भिन्नधातुकः कर्तव्य इत्यर्थः । तुशब्दद्योतितं विशेषान्तरं दर्शयति---न पल्लवपदस्थितिरिति । तृतीये पादे त्रीण्यपि पल्लवपदानि न कर्तव्यानीत्यर्थः । अतस्तृतीयेऽङ्घ्रौ पदद्वयमेव । तत्र प्रथमं गीतकसंज्ञं, द्वितीयमञ्चितसंज्ञं वेदितव्यम् । एलाप्रबन्धस्य त्रिधातुकत्वमभ्युपगच्छतामेतानि द्वादश पदान्युद्ग्राहो भवन्तीति मतम् । चतुर्धातुकत्वमभ्युपगच्छन्तः सोमेश्वरादयस्त्वेकादशानामेवोद्ग्राहत्वमुक्त्वा द्वादशपदं मेलापकमाहुरित्याह – अमुं प्रयोगमिति । स्तुत्यनामाङ्कित इत्यादि । ततोऽनन्तरं मध्यविलम्बितयोः पदत्रयं यस्येति स तथोक्तः । एतदुक्तं भवति - - त्रिषु पदेष्वाद्यं पदद्वयं मध्यमाने गेयम् ; तृतीयं विलम्बिते गेयमिति । अन्यथा' तत्र पूर्वमेकधातु पदद्वयम् । भिन्नधातु तृतीयं स्यात्' इत्युत्तरं वचनं विरुध्येत, पूर्वपदद्वयस्य मिथोऽपि मानभेदे सत्येकधातुत्वासंभवात् । एवं पदत्रयात्मको वो भवति। त्रिषु पदेषु मध्ये यत्र कुत्रापि स्तुत्यनामाङ्कितः स्तुत्यस्येष्टदेवताराजा - देर्नामाङ्कितः कर्तव्य इत्यर्थः । एतानि त्रीणि ध्रुवपदानि क्रमेण विचित्रवासवमृदुसंज्ञकानि वेदितव्यानि। आभोगस्तदनन्तरमिति । तदनन्तरं ध्रुवस्थानानन्तरम् | आभोगो वाग्गेयकारेण स्वाभिधानविभूषितो गेयः, स्वनामाङ्कितः
28
Scanned by Gitarth Ganga Research Institute