________________
२१६
संगीतरत्नाकरः ततः प्रयोगस्तदनु पल्लवाख्यं पदत्रयम् । द्वे स्तो विलम्बिते तत्र तृतीयं द्रुतमानतः ।। ३४ ॥ एवं पादत्रयं गेयमुद्ग्राहे तुल्यधातुकम् । केवलं तु तृतीयेऽङ्घौ संबोधनपदान्वितः ।। ३५ ॥
मित्यवगन्तव्यम् । ततः प्रयोग इति । ततः खण्डद्वयानन्तरं प्रयोगः अक्षरवर्जिता गमकालप्तिः कार्या । तथाच वक्ष्यति
'आलापो गमकालप्तिरक्षरैर्वर्जिता मता ।
सैव प्रयोगशब्देन शार्ङ्गदेवेन शब्दिता ॥' इति । अयं प्रयोगो मन्मथवत्संज्ञकं द्वितीयं पदम् । तदन्विति । प्रयोगानन्तरं पल्लवाख्यं प्रत्येकं पल्लवशब्दसंज्ञकं पदत्रयं गेयम् । तत्र पदत्रये द्वे क्रमात् कान्तजितसंज्ञके प्रथमद्वितीये पदे विलम्बितमाने स्तः । तृतीयं मित्रसंज्ञकं पदं द्रतमानतो भवति । द्रुतादिमानानां स्वरूपं तालाध्याये वक्ष्यते । एवं पादत्रयमिति। पञ्च पदानि मिलित्वैकः पादः। एवम् ; प्रथमपादोक्तलक्षणयुक्त्या। तुल्यधातुकमित्यनेन भिन्नमातुकमिति गम्यते । उदग्राहे गेयमिति । पादत्रयं मिलित्वोद्ग्राहो भवतीत्यर्थः । द्वितीयपादस्थितानां पञ्चानां पदानां क्रमेण विकारी, मान्धाता, सुमती, शोभी, सुशोभीति संज्ञा वेदितव्याः। एवमित्यतिदेशेन तृतीयेऽपि पादे प्रथमपादोक्तलक्षणे प्राप्त विशेष दर्शयितुमाह-केवलं त्विति । तुशब्दो भिन्नक्रमः तृतीयेऽङ्घौ विति। तृतीयेऽशौ तु सानुप्रासधातुकखण्डद्वयानन्तरं केवलं संबोधनपदान्वितः अन्ते संबोधनाथैन पदेन युक्तः । अत्र केवलशब्देनासंबोधनार्थपदान्तरयोगो निषिध्यते । एतेन प्रथमद्वितीयाज्रिगतप्रयोगद्वयस्य संबोधनार्थैकैकपदयोगाभ्यनुज्ञा विज्ञायते । अन्यथा पक्षरवर्जितत्वात् प्रयोगाणामर्थवत्त्वाभावात् पदत्वं न सिध्येदिति भावः ।
Scanned by Gitarth Ganga Research Institute