________________
चतुर्थः प्रवन्धाध्यायः
२१५
एलाप्रवन्धः अङ्घौ खण्डद्वयं सानुप्रासमेकेन धातुना ॥ ३३ ॥ अङ्गे-गद्यं पद्यं चेति । पुनरपि प्रबन्धस्य द्वैविध्यं कथयति- अनियुक्त इति । अनयोलक्षणमाचष्टे-छन्द इति । छन्दसां तालानां च नियम विनोपनिबद्धोऽनियुक्तः ; छन्दस्तालनियमेनोपनिबद्धो नियुक्त इति । युक्तायुक्तोभयात्मका अपि प्रबन्धा उक्ता: पार्श्वदेवेन । यदाह
"कचिदङ्ग कचिच्छन्दो गीते यस्मिन् विराजते ।
उभयात्मकमित्याहुर्गीतं गीतविशारदाः ॥" इति । पुनरपि प्रबन्धानां त्रैविध्यं कथयति-पुनरिति । प्रबन्धास्त्रविधा:सूडस्थाः, आलिस्थाः , प्रकीर्णकाश्चेति । तत्र सूडलक्षणमाह-एलेति । एलादिभिरष्टभिर्मार्गसूडः । तत्र स्थिता: प्रबन्धाः सूडस्थाः । आलिसंमिश्रितान् प्रबन्धान विभजते-वर्ण इति । वर्णादयस्तालार्णवान्ताश्चतुर्विशतिः । तेषु मध्ये एलादीनां मध्यस्थो यः कश्चन प्रबन्धो भवति चेत् , तदा सोऽप्यालिक्रमस्थ इत्युच्यते । सर्वे सूडा आलिक्रमस्था मिलिताः प्रबन्धा द्वात्रिंशत् । विप्रकीर्णान् प्रबन्धानाह-ततोऽन्य इति । तेभ्यः सूडालिक्रमस्थेभ्यः प्रबन्धेभ्योऽन्ये विप्रकीर्णा इत्युच्यन्ते । ते च बहवः । तस्मात् कियत एव प्रतिज्ञाय कथयति-श्रीरङ्ग इति । श्रीरङ्गाद्या ध्वन्यन्ता: षट्त्रिंशद्विप्रकीर्णाः । कचित् दन्तीति पाठः ॥ १९-३३ ।।
(क०) प्रथमोद्दिष्टामेला लक्षयति-अमौ खण्डद्वयमित्यादिना । एलायां प्रथमं तावत् पादत्रयं गेयम् । तदङ्घौ प्रथमपादे सानुप्रासमनुप्रासालंकारसहितम् । “वर्णसाम्यमनुप्रासः” इति तस्य लक्षणम् । तथाभूतं खण्डद्वयमेकेन धातुना एकरूपेण गेयेन गेयं स्यात् गातव्यं भवेत् । एतेन खण्डद्वये मातुभेद: कर्तव्य इत्यर्थः । अन्यथैकमेव खण्डं द्विर्गेयं स्यादिति वदेत् । एतत् खण्डद्वयं मिलित्वा वक्ष्यमाणेषु षोडशसु पदेषु कामसंज्ञं प्रथमं पद
Scanned by Gitarth Ganga Research Institute