________________
२१४
संगीतरत्नाकरः श्रीरङ्गः श्रीविलासः स्यात् पञ्चभगिरतः परम् । पश्चाननोमातिलको त्रिपदी च चतुष्पदी ॥ २९ ॥ षट्पदी वस्तुसंज्ञश्च विजयस्त्रिपथस्तथा । चतुर्मुखः सिंहलीलो हंसलीलोऽथ दण्डकः ॥ ३०॥ झम्पटः कन्दुकः स्यात् त्रिभङ्गिहरविलासकः। सुदर्शनः स्वराङ्कः श्रीवर्धनो हर्षवर्धनः ।। ३१ ॥ वदनं चचरी चर्या पद्धडी राहडी तथा।। वीरश्रीर्मङ्गलाचारो धवलो मङ्गलस्तथा ॥ ३२॥ ओवी लोली ढोल्लरी च दन्ती' षट्त्रिंशदित्यमी ।
इति विप्रकीर्णप्रबन्धाः
समूहवाची देशीशब्दः । अत्रोद्दिष्टानामेलादिशब्दानां मध्ये केषांचिढतैव, केषांचिदन्वर्थत्वं चेत्यवगन्तव्यम् ॥ १९-३३ ॥
(सं०) एवमङ्गान्युक्त्वाङ्गसंख्याविशेपेण प्रबन्धजाती: कथयतिमेदिनीति । षड्भिरङ्गैरुपनिबद्धा मेदिनीत्युच्यते । पञ्चभिरङ्गैरुपनिबद्धा आनन्दिनी । चतुर्भिरङ्गैरुपनिबद्धा दीपनी । त्रिभिरङ्गैरुपनिबद्धा भावनी । द्वाभ्यामङ्गाभ्यामुपनिबद्धा तारावलीति । मतान्तरेण नामान्तराण्याह- केषांचनेति । षडङ्गोपेता श्रुतिः, पञ्चाङ्गोपेता नीतिः, चतुरङ्गोपेता सेना, त्र्यङ्गोपेता कविता, द्वयङ्गोपेता चम्पूरित्येतानि नामान्युचितानि । श्रुतेवैदस्य शिक्षाज्योतिषनिरुक्तनिघण्टुच्छन्दोव्याकरणानि षडङ्गानि । नीते: पञ्चाङ्गानि-कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति । सेनायाश्चत्वार्यङ्गानि-हस्त्यश्वरथपदातिरूपाणि । कवितायास्त्रीण्यङ्गानि-शक्तियुत्पत्तिरभ्यासश्चेति । चम्प्वा द्वे
1 ध्वनिरिति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute