________________
चतुर्थ: प्रबन्धाध्यायः
२१३
पुनः प्रबन्धास्त्रिविधाः सूडस्था आलिसंश्रयाः ।। २२ ।। विप्रकीर्णाश्च तत्रादौ सूडलक्षणमुच्यते ।
प्रबन्धभेदाः
सूडप्रबन्धः
एलाकरणढेङ्कीभिर्वर्तन्या झोम्बडेन च ॥ २३ ॥ लम्भरासैकतालीभिरष्टभिः सूड उच्यते ।
इति सूडप्रबन्धः
आलिप्रबन्धः
वर्णो वर्णस्वरो गद्यं कैवाडचाङ्कचारिणी ॥ २४ ॥ कन्दस्तुरगलीला च गजलीला द्विपद्यपि । चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनिकुहनी ।। २५ ।। आर्या गाथा द्विपथकः कलहंसश्च तोटकम् | घटो वृत्तं मातृका च ततो रागकदम्बकः ॥ २६ ॥ पञ्चतालेश्वरस्तालार्णव इत्येषु कश्चन ।
सूडक्रमस्य मध्ये चेदसावालिक्रमो भवेत् ॥ २७ ॥ सूडालिक्रमसंबन्धाद् द्वात्रिंशदिति कीर्तिताः ।
इत्यालप्रबन्धः
विप्रकीर्णप्रबन्धाः
ततोऽन्ये विप्रकीर्णास्तान् प्रसिद्धान् कतिचिद् ब्रुवे ||२८||
छन्दांसि त्रिष्टुबादीनि । तालाश्चचत्पुटादयः । आदिशब्देनाङ्गधातुरागरसभाषादयो गृह्यन्ते । तेषामनियमादाद्यः अनिर्युक्त इत्यर्थः । तेषां नियमात्तु परः निर्युक्तः स्यादित्यर्थः । अष्टभिः सूड उच्यत इति । सूड इति गीतविशेष
Scanned by Gitarth Ganga Research Institute