________________
२१२
संगीतरत्नाकरः
प्रबन्धजातयः मेदिन्यथानन्दिनी स्याद्दीपनी भावनी तथा ॥ १९ ॥ तारावलीति पश्च स्युः प्रबन्धानां तु जातयः। अङ्गैः षडादिभिर्यन्तैः केषांचन मते श्रुतिः ॥ २० ॥ नीतिः सेना च कविता चम्पूरित्युदितास्तु ताः।
इति प्रबन्धजातयः
प्रबन्धभेदाः अनियुक्तश्च नियुक्तः प्रबन्धो द्विविधो मतः ॥ २१ ॥ छन्दस्तालाधनियमादाद्यः स्यान्नियमात् परः।
तद्वीररससंयुक्तं द्विषामुद्वेगदायकम् ।
रसान्तरेण संयुक्तं यत् पदं बिरुदं तु तत् ॥" इति । ततो बिरुदात् अन्यत् वाचकं पदमित्युच्यते । तेनेत्ययं शब्दः तेन इत्युच्यते । अयं तेनशब्दः कल्याणरूपमर्थ प्रकाशयति । कथमस्य कल्याणार्थप्रकाशकत्वमित्यत्राह-ओं तत्सदिति । ओं तत्सदिति श्रुतौ निर्देशोऽस्ति । तस्मात् तत्त्वमस्यादिवाक्यतस्तच्छब्देन ब्रह्मोच्यते । उपलक्षणे तृतीया। यतश्च तेन कल्याणरूपेण ब्रह्मणोपलक्षितमर्थं वदति, तेन हेतुना तेनेत्ययं शब्दो मङ्गलार्थप्रकाशको भवति । पाटं लक्षयति–पाट इति । वाद्याक्षराणां धिगिधिगादीनामुत्करः समूहो वाद्याध्याये वक्ष्यमाणः पाट इत्युच्यते । तालस्तालाध्याये वक्ष्यते ॥ १-१९ ॥
(क) प्रबन्धानां जातिभेदान् दर्शयति-मेदिनीत्यादिना । षडा. दिभिर्यन्तैरङ्गैरिति । षड्भिरङ्गैर्बद्धा मेदिनी जातिः । पञ्चभिरानन्दिनी । चतुर्भिर्दीपनी । त्रिभिभावनी । द्वाभ्यां तारावलीति क्रमो द्रष्टव्यः । मतान्तरेण श्रुत्यादिकाः संज्ञास्तासामेव क्रमेण योजनीयाः । छन्दस्तालाद्यनियमादिति ।
Scanned by Gitarth Ganga Research Institute