________________
चतुर्थः प्रबन्धाध्यायः
२११ प्रबन्धेषु ध्रुवत्वेन ध्रुव इत्यभिधीयते । स्वयं यत्र प्रबन्धे स्यादनेनैव च पूरणम् ॥ आभोगः कथितस्तेन गीतविद्याविशारदैः ।
ध्रुवस्याभोगकरणादाभोग इति केचन ॥" इति । तेषु धातुषु मध्ये मेलापकाभोगौ द्वौ धातू कचित् केषुचित् प्रबन्धेषु न स्याताम् । तदुक्तं पार्श्वदेवेन
"वज्यो मेलापकाभोगौ प्रबन्धेषु द्विधातुषु । त्रिधातुकप्रबन्धेषु तयोरेकं विवर्जयेत् ॥ एलायां ढेङ्किकायां च स्यादन्ते नियमादिमौ ।
अन्येषु च प्रबन्धेषु स्यातां गीतानुसारतः ॥" इति । प्रबन्धभेदान् कथयति-स द्विधातुरिति। स प्रबन्धस्त्रिप्रकार:--द्विधातुस्त्रिधातुश्चतुर्धातुरिति । अयं विशेषः द्विधातुत्वादिप्रबन्धलक्षणेश्वग्रे स्फुटीभविष्यतीति विशेषतो नोक्तः । तस्य प्रबन्धस्य षडङ्गानि-स्वरः, बिरुदम् , पदम् , तेनकः, पाट:, तालश्चेति । अथ कथं तेषामङ्गत्वमत आह-प्रबन्धपुरुषस्येति । प्रबन्धरूपस्य पुरुषस्य नेत्रादीन्यङ्गानि यथा, तथा तानि; तस्मादङ्गानीत्युच्यन्ते । कस्याङ्गस्य किमङ्गत्वं तदाह-मङ्गलार्थेति । तेनपदे कल्याणरूपमर्थ प्रकाशयतः । तस्मात् प्रकाशकत्वानेत्रे । नेत्रे अपि रूपादिकमर्थं प्रकाशयतः । पाटविरुदे प्रबन्धपुरुषस्य करौ, करोद्भवत्वात् । पाटोऽक्षराणि तावत् कराभ्यां मृदङ्गादिवादनादेव प्रभवन्ति । बिरुदमपि पदविन्यासेन प्रकाश्यते । तस्मात् कार्ययोः पाटबिरुदयोः कारणत्वमुपचारात् । तालस्वरौ प्रबन्धपुरुषस्य गतिहेतुत्वाच्चरणावुच्यते । एतेषामङ्गानां लक्षणान्याचष्टे-स्वरा इति । षड्जादयः स्वराः पूर्वमुक्ताः । तेषां वाचकाः सरिगमपधनीति वर्णाः तत्तत्स्वराभिव्यक्तिसहिताः स्वरशब्देनोच्यन्ते । गुणनाम भुजबलभीमादि बिरुदशब्देनोच्यते । तदुक्तं संगीतसमयसारे
“बिरुशब्दो विरुद्धार्थो महाराष्ट्रप्रसिद्धितः । परेभ्यस्तत्प्रदानेन बिरुदं सूरिभिः स्मृतम् ॥
Scanned by Gitarth Ganga Research Institute