________________
संगीतरत्नाकरः इति । तस्य गीतस्य त्रैविध्यं कथयति-निबद्धमिति । निबद्धं लक्षयतिबद्धमिति । धातुभिः प्रबन्धावयवैरुद्वाहादिभिरङ्गैः स्वरबिरुदादिभिर्यद्वद्धं रचितं तन्निबद्धमित्यभिधीयते । आलप्तिस्तु तालाद्युपनिबन्धहीनत्वाद निबद्धमित्युच्यते । सा आलप्तिः पुरा प्रकीर्णकाध्यायेऽस्माभिः प्रोक्ता । तस्मानिबद्धमुच्यते । संज्ञात्रयमिति । निबद्धस्य तिस्रः संज्ञा भवन्ति-प्रबन्धः, वस्तु, रूपकमिति । संज्ञात्रयस्य प्रवृत्तिनिमित्तमुक्तं पार्श्वदेवेन
"चतुर्भिर्धातुभिः षड्भिश्वाङ्गैर्यस्मात् प्रबध्यते । तस्मात् प्रबन्ध: कथितो गीतलक्षणकोविदैः । रामाधारोपणान्नेतुः स्यादस्मिन् रूपकाभिधा ॥ उद्गाहाद्यास्तु चत्वारः स्वरादीनि च षद् तथा ।
वसन्ति यत्र स ज्ञेयः प्रबन्धो वस्तुसंज्ञया ॥" इति । धातुभिर्बद्धमिति पूर्वमुक्तम् । तत्र को धातुरित्यपेक्षायामाह---प्रबन्धावयव इति । प्रबन्धस्यावयवोंऽशो धातुरित्युच्यते । स चतुष्प्रकार:-उद्गाहकः, मेलापकः, ध्रुवः, आभोगश्चेति । एतान् लक्षयति-उदाह इति । प्रबन्धस्य प्रथमो भाग उद्गाह इत्युच्यते । द्वितीयो भागो मेलापकः । तृतीयो भागो ध्रुवः । तत्र ध्रुवशब्दस्य व्युत्पत्तिस्तु ध्रुवत्वान्निश्चलत्वादिति ; उद्गाहानन्तरमाभोगानन्तरं च गानात् । अन्तिमो भाग आभोगः । अन्यो धातुरन्तराभिधोऽस्तीत्याह-ध्रुवाभोगेति । ध्रुवस्य आभोगस्य च मध्येऽन्तराख्यः पञ्चमो धातुरस्ति । तत्कथं पञ्चधेति नोक्तमत आह-स त्विति । अन्तराख्यो धातुन सर्वत्र प्रबन्धेषु ; किंतु सालगसूडप्रबन्धेष्वेव । ततश्च सर्वेषु प्रबन्धेषु चत्वार एव धातवः । धातुशब्दं व्युत्पादयति-वातपित्तेति । वातपित्तकफा दोषाः देहं दधति ; तस्माद्धातवो यथोच्यन्ते, तथा एते उगाहादयः प्रबन्धस्य देहधारणाद्धातवः । “डुधाञ् धारणपोषणयोः” इन्यस्माद्धातोरौणादिके तुन्प्रत्यये धातुरिति रूपम् । उगाहादीनां व्युत्पत्तिरुक्ता पार्श्वदेवेन
"आदावुद्ाह्यते गीतं येनोद्गाहः स कीर्तितः । प्रोक्तो मेलापकस्तज्ज्ञैरुद्राहध्रुवमेलनात् ।।
Scanned by Gitarth Ganga Research Institute