________________
चतुर्थः प्रबन्धाध्यायः
२०९ निरूप्यते । तस्य गानस्य जनानां रुचिविशेषेण बहवो भेदा उक्ताः पार्श्वदेवेन । यदाह
“आचार्याः सममिच्छन्ति व्यक्तमिच्छन्ति पण्डिताः । स्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः ॥ उच्चनीचस्वरोपेतं न द्रुतं न विलम्बितम् । पदतालै: समं गीतं सममाचार्यवल्लभम् ॥ क्रियाकारकसंयुक्तं संधिदोषविवर्जितम् । व्यक्तस्वरसमायुक्तं व्यक्तं पण्डितसंमतम् ।। ललितैरक्षरैर्युक्तं शृङ्गाररसरञ्जितम् । श्रव्यनादसमायुक्तं मधुरं प्रमदाप्रियम् ।। स्वरैरुचतरैर्युक्तं प्रयोगबहुलीकृतम् । विक्रुष्टं नाम तद्गीतमितरेषां मनोहरम् ॥ गीतमारभटीवृत्त्या वीरसंगतवर्णकम् | उच्चनीचस्वरं गीतं सोत्साहं शूरवल्लभम् ॥ प्रेमोद्दीप्तपदप्राय शृङ्गाररसभूषितम् | करुणाकाकुसंयुक्तं करुणं विरहिप्रियम् ॥ विपरीतपदैर्युक्तं स्वरभङ्गयुपबंहितम् । गीतं हास्यरसोदारं परिहासं विटप्रियम् ॥ गूढाथैः परमार्थश्च संसारसुखदूषकैः । पदैनियोजितं गीतमध्यात्मं योगिवल्लभम् ॥ शुभवाक्ययुतं गीतं शुद्धपञ्चमनिर्मितम् । विवाहाद्युत्सवे गेयं मङ्गलं महिलामतम् ।। देवतास्तुतिसंयुक्तं तत्प्रभावप्रबोधकम् | आस्तिक्योत्पादनं गीतं रम्यं भक्तजनप्रियम् ॥ अभ्यवस्थानकं गीतं तालपाटैरलक्षितम् | प्रयोगबहुलं रूक्षं विषमं वादिवल्लभम् ॥" 27
Scanned by Gitarth Ganga Research Institute