________________
२०८
संगीतरत्नाकरः तदिति ब्रह्म तेनायं ब्रह्मणा मङ्गलात्मना । लक्षितस्तेन तेनेति पाटो वाद्याक्षरोत्करः ॥ १८ ॥ तालस्तालप्रकरणे सप्रपञ्चो निरूप्यते ।
इति प्रबन्धाङ्गानि ब्रह्म प्रकाश्यते । तेन मङ्गलात्मना ब्रह्मणायं प्रबन्धस्तेन तेनेति लक्षितोऽङ्कित इति सिंहावलोकन्यायेन योजना ॥ १-१९ ॥
(सं०) एवं प्रकीर्णकाध्याये वाग्गेयकारालप्त्यादिलक्षणमुक्तम् । तत्र वाग्गेयकारेण किं कर्तव्यमित्यपेक्षायां रूपकभञ्जन्यामालप्तौ रूपकोपयोग उक्तः । तत्र किमिदं प्रबन्धापरपर्यायं रूपकमित्यपेक्षायां च प्रबन्धान् लिलक्षयिषुरुपोद्वातं रचयति-रञ्जक इति । स्वराणां संदर्भो रचनाविशेषो मनोरञ्जको गीतमित्यभिधीयते । तस्य गीतस्य गान्धर्व गानमिति भेदद्वयमुक्तं भरतादिभिः । तत्र गान्धर्व लक्षयति-अनादीति । यत् गन्धर्वैः संप्रयुज्यते गीयते । तच्च न स्वबुद्ध्या गीयते; किं त्वनादिसंप्रदायात् । अनादिमान् यः संप्रदायो गुरुशिष्यपरंपरया परिज्ञानम् , तस्मादेव । नियतं ग्रहांशमूर्छनादिनियमयुक्तं श्रेयस: ऐहिकसुखस्वर्गापवर्गरूपस्य हेतुः कारणं तद्गान्धर्वमित्यभिधीयते । भरतेनाप्युक्तम्
" यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदाश्रयम् ॥ अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः ।
गन्धर्वाणां च यस्माद्धि तस्माद्गान्धर्वमुच्यते ॥" इति । गानं लक्षयति यत्त्विति । वाग्गेयकारेण पूर्वोक्तलक्षणेन वक्ष्यमाणलक्षाणान्वितं यद्रचितं पञ्चतालेश्वरादि । देशीरागाश्च रागाङ्गादयः; आदिशब्देनान्यदपि स्वबुद्धिरचितं यजनान् रञ्जयति तद्गानमित्युच्यते । तत्र तयोर्गान्धर्वगानयोर्मध्ये गान्धर्व जातिग्रामरागादि पूर्वमुक्तम् । अधुना गानं
Scanned by Gitarth Ganga Research Institute