________________
२०७
चतुर्थः प्रबन्धाध्यायः भवन्त्यङ्गवदङ्गानि मङ्गलार्थप्रकाशके ॥ १३ ॥ तत्र तेनपदे नेत्रे स्तः पाटबिरुदे करौ । कराभ्यामुद्भवात् कार्ये कारणत्वोपचारतः ॥ १४ ॥ प्रबन्धगतिहेतुत्वात् पादौ तालखरौ मतो। खराः षड्जादयस्तेषां वाचकाः सरिगादयः ॥ १५ ॥ खराभिव्यक्तिसंयुक्ताः स्वरशब्देन कीर्तिताः। बिरुदं गुणनाम स्यात्ततोऽन्यद्वाचकं पदम् ।। १६ ॥ तेनेतिशब्दस्तेनः स्यान्मङ्गलार्थप्रकाशकः । ओं तत्सदिति निर्देशात्तत्त्वमस्यादिवाक्यतः ॥ १७॥
त्येतदेव प्रतिपादयन्नाह-मङ्गलार्थप्रकाशक इत्यादिना । तत्र मङ्गलप्रकाशकस्तेनकः । अर्थप्रकाशकं पदम् । कराभ्यामुद्भवादिति । पाटस्य तावत् करोद्भवत्वमवनद्धवाद्याक्षरोक्तकररूपस्य तस्य करव्यापारजातत्वात् । शङ्खादिसुषिरवाद्योद्भवस्य मुखोद्भवत्वेन करोद्भवत्वाभावेऽपि कचित् साहचर्याच्छत्रिन्यायेन करोद्भवत्वं लक्षणया। बिरुदमपि करोद्भवम् , प्रायेण वितरणहेतुकस्य तस्य कल्यापारजातत्वात् । रूपादिहेतुकस्यापि करजत्वं पूर्ववत् । अतः कार्ये कारणत्वोपचारात् पाटबिरुदे हस्तौ स्त इत्युक्तम् । पादौ तालस्वरौ मताविति । तालस्य तु सकलपबन्धगतत्वेऽप्यङ्गत्वं भवति; स्पर्शनस्य सकलशरीरगतत्वेऽपीन्द्रियत्ववत् । स्वरस्य च सकलपबन्धगतत्वेऽपि षड्जादिवाचकानां सरिगादीनामेव स्वराभिव्यक्तिहेतुत्वादसाधारण्येनाङ्गत्वव्यपदेशः ; यथाकाशस्य सकलशरीरच्छिद्रगतत्वेऽपि कर्णशप्कुल्यवच्छिन्नस्यैव शब्दग्राहकत्वेन श्रोत्रत्वव्यपदेशः । तेनेतिशब्दस्य मङ्गलप्रकाशकत्वं प्रतिपादयितुमाह--तेनेतिशब्द इत्यादिना । तेन कारणेन तेनेतिशब्दो मङ्गलस्य प्रकाशकः स्यात् । यतो महावाक्यादौ तदिति
Scanned by Gitarth Ganga Research Institute