________________
२०६
संगीतरत्नाकरः तत्र मेलापकाभोगौ न भवेतां कचित्कचित् ॥ ११ ॥
इति धातुभेदाः
प्रबन्धभेदाः स द्विधातुस्त्रिधातुश्च चतुर्धातुरिति विधा।
इति प्रबन्धभेदाः
प्रबन्धाङ्गानि प्रबन्धोऽङ्गानि षट् तस्य स्वरश्च बिरुदं पदम् ॥ १२॥
तेनकः पाटताली च प्रवन्धपुरुषस्य ते । तत्रेत्यादि । मेलापकाभोगौ कचिन्न भवेतामिति । यत्रोभावपि युगपन्न भवेतां तत्रोदग्राहध्रुवयोरेव विद्यमानत्वात् स प्रबन्धो द्विधातुः। द्वितीयस्य क्वचिच्छब्दस्यासहायस्यानुपयोगात्तदर्थं पूर्ववाक्यान्मेलापकाभौगौ पर्यायेण न भवेतामित्यर्थभेदेनानुषङ्गः कर्तव्यो भवति । तेन यद्यप्युभयथापि प्रबन्धस्य त्रिधातुत्वं सिध्यति, तथाप्युभयत्र प्रबन्धलक्षणेषु यत्र कुत्राप्याभोगाभावेन त्रिधातुत्वस्यादृष्टत्वादनुषङ्गेऽपि वचनविपरिणामं कृत्वा कचिन्मेलापको न भवेदिति वाक्यमुन्नेयम् । तदा स प्रबन्धो मेलापकाभावात् त्रिधातुर्भवतीत्येव दृष्टोऽर्थों लभ्यते । एवमनुपङ्गन्यायं हृदि निधाय केवलं कचिच्छब्दं प्रयुञ्जानस्य ग्रन्थकारस्याभिप्रायोऽवगन्तव्यः । यत्र तूभावपि मेलापकाभोगौ भवतस्तत्रोद्ग्राहादीनां चतुर्णामपि विद्यमानत्वात् स प्रबन्धश्चतुर्धातुरित्ययं प्रकारस्तात्पर्यतोऽवगम्यते । तच्च तात्पर्य चतुर्धातुरित्यनेनाभिव्यज्यते । प्रबन्धोऽङ्गानीत्यादि । प्रवन्ध इति पूर्वेण विधेत्यनेनान्वीयते-त्रिधा प्रबन्ध इति । अङ्गानीत्यस्योत्तरेणान्वयः कर्तव्यः । तस्याङ्गानि पडिति । तस्य ; द्विधातुत्वादिप्रकारभेदभिन्नस्य प्रबन्धस्य । तानि पडङ्गान्युद्दिशति-स्वरश्चेत्यादि । अङ्गवदगानी
Scanned by Gitarth Ganga Research Institute