________________
चतुर्थः प्रबन्धाध्यायः
२०५ ध्रुवत्वाच ध्रुवः पश्चादाभोगस्त्वन्तिमो मतः। ध्रुवाभोगान्तरे जातो धातुरन्योऽन्तराभिधः ॥ ९॥ स तु सालगसूडस्थरूपकेष्वेव दृश्यते । वातपित्तकफा देहधारणाद्धातवो यथा ॥ १० ॥ एवमेते प्रबन्धस्य धातवो देहधारणात् ।
उद्गृह्यते प्रारभ्यते येन गीतं स उद्ग्राह इति प्रबन्धस्य प्रथमावयवोऽन्वर्थसंज्ञः । ततो मेलापकः स्मृत इति । उग्राहध्रुवयोमेलनकारकत्वात् मेलापक इति द्वितीयोऽप्यवयवोऽन्वों द्रष्टव्यः । ध्रुवत्वादिति । नित्यत्वादित्यर्थः । तृतीयावयवस्य नित्यत्वं तावदुग्राहव्यतिरिक्तेतरापेक्षया सकलप्रबन्धेप्वनपायात् । तेन द्विधातुषु प्रबन्धेपु मेलापकाभोगयोः त्रिधातुपु प्रबन्धेषु सर्वत्र मेलापकस्यैव परित्यागः ; ध्रुवस्य न क्वचिदपि परित्याग इत्यर्थः । आभोगस्त्वन्तिमो मत इति । अन्तिमो धातुः प्रबन्धस्य परिपूर्णताहेतुत्वादाभोग इति कारणे कार्योपचार उक्तः। “ आभोगः परिपूर्णता " इत्यभिधानादाभोगशब्दस्य परिपूर्णतावाचकत्वम् । ध्रुवाभोगान्तरे जात इति । ध्रुवाभोगान्तरे ध्रुवाभोगयोर्मध्ये जात उत्पन्नो निर्मित इत्यर्थः । अनेन गानकाले ध्रुवस्यावृत्तिषु कृतासु ततः परमाभोगजिज्ञासायां चरमावृत्त्यन्ते गेय इति गम्यते । स त्विति । सालगसूडस्थरूपकेषु वक्ष्यमाणेषु ध्रुवमण्ठादिप्वेवेति नियमेनैलादिषु शुद्धसूडक्रमस्थेषु वषैलादिषु क्रमेषु वा श्रीरङ्गादिषु विप्रकीर्णेषु वा न कार्य इत्यर्थः । अत्र दृश्यत इति दृशिग्रहणेन ध्रुवादिप्वपि यत्र चिरंतनप्रयोगादन्तरो दृष्टस्तत्रैव कार्यो नान्यत्रेति नियमान्तरस्यापि सूचितत्वान्मण्ठादिषु दर्शनात्तत्रैव कार्यः; ध्रुवे त्वदर्शनात्तत्र न कार्य इति मन्तव्यम् । उग्राहादिषु धातुशब्दप्रवृत्तौ निमित्तं सदृष्टान्तं दर्शयति-वातपित्तेत्यादिना । एतेनाङ्गेभ्यो धातुनां व्यापारभेदो दर्शितः ।
Scanned by Gitarth Ganga Research Institute