________________
२०४
संगीतरत्नाकरः यत्तु वाग्गेयकारेण रचितं लक्षणान्वितम् । देशीरागादिषु प्रोक्तं तद्गानं जनरञ्जनम् ॥ ३ ॥ तत्र गान्धर्वमुक्तं प्रागधुना गानमुच्यते ।
इति गीतभेदः
___गानभेदः निबद्धमनिबद्धं तद् द्वेधा निगदितं बुधैः ॥ ४ ॥ बद्धं धातुभिरङ्गैश्च निबद्धमभिधीयते । आलप्तिर्बन्धहीनत्वादनिबद्धमितीरिता ॥५॥ सा चास्माभिः पुरा प्रोक्ता निबद्धं त्वधुनोच्यते । संज्ञात्रयं निबद्धस्य प्रबन्धो वस्तु रूपकम् ॥ ६॥
___ इति गानभेदः
धातुभेदाः प्रवन्धावयवो धातुः स चतुर्धा निरूपितः । उद्ग्राहः प्रथमस्तत्र ततो मेलापकध्रुवौ ॥ ७ ॥ आभोगश्चेति तेषां च क्रमाल्लक्ष्माभिदध्महे ।
उद्ग्राहः प्रथमो भागस्ततो मेलापकः स्मृतः ॥ ८॥ पौरुषेयत्वमिति सूचितं भवति । गानं तु वाग्गेयकारादिपरतन्त्रत्वात् पौरुषेयमेव । तत्र गान्धर्वमुक्तं प्रागिति । स्वरगतरागविवेकयोर्जात्याद्यन्तरभाषान्तं यदुक्तं तद्गान्धर्वमित्यर्थः । अधुना गानमुच्यत इति । अस्मिन्नध्याये गानविशेषः प्रबन्धः प्रतिपाद्यत इत्यर्थः। बद्धं धातुभिरङ्गैश्चेति । धातवोऽङ्गानि च समनन्तरमेव वक्ष्यन्ते । प्रबन्धावयवो धातुरिति । पूर्व धातुशब्देन गेयमुक्तम् । अत्र प्रबन्धावयवो विवक्षितः । गेयं नाम सकल्पबन्धानुगतो धर्मः । प्रबन्धावयवस्तु धर्मकदेश इति तयोर्भेदो द्रष्टव्यः । उद्ग्राहः प्रथमो भाग इति।
Scanned by Gitarth Ganga Research Institute