________________
चतुर्थः प्रबन्धाध्यायः
गीतभेदः रञ्जकः स्वरसंदर्भो गीतमित्यभिधीयते । गान्धर्व गानमित्यस्य भेदद्वयमुदीरितम् ॥१॥ अनादिसंप्रदायं' यद्गन्धर्वैः संप्रयुज्यते । नियतं श्रेयसो हेतुस्तद्गान्धर्वं जगुर्बुधाः ॥ २ ॥
(क०) एवमुक्तलक्षणानां वाग्गेयकारादीनां व्यापारविषयत्वेन प्रसक्तान् गीतविशेषान् प्रबन्धान् लिलक्षयिषुरादौ गीतसामान्यलक्षणमाह-रञ्जकः स्वरसंदर्भो गीतमिति । संदर्भो गुम्फः । ननु स्वरसंदर्भो गीतमित्येतावतैव गीतस्य रञ्जकत्वं सिद्धम् ; 'स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते। इति स्वरशब्दनिरुक्तेः स्वराणां स्वत एव रञ्जकत्वात्तत्संदर्भस्यापि रञ्जकत्वसिद्धेः पुनरपि रञ्जकेति विशेषणमनर्थकं व्यवच्छेद्याभावादिति । नैतदस्ति । स्वराणां स्वत एव रञ्जकत्वेऽपि तत्संदर्भस्य कदाचिदरञ्जकत्वं भवति । यं कंचिद्रागं प्रकृत्य प्रवेशनिग्रहाभ्यामन्तरेण तत्र विवादिस्वरप्रयोगे सति प्रकृतरागहानेररञ्जकः संदर्भ: स्यात् । तद्वयवच्छेदेन रञ्जकग्रहणमर्थवद्भवति । अतो रञ्जकेति संदर्भविशेषणम् ; न स्वरविशेषणम् । तथा सत्यरञ्जकस्वराभावेन व्यवच्छेद्याभावाद्वैयर्थ्यमेव भवति । गीतभेदान् दर्शयितुमाह-गान्धर्व गानमित्यादिना । गान्धर्व मार्गः । गानं तु देशीत्यवगन्तव्यम् । अनादिसंप्रदायमित्यनेन गान्धर्वस्य वेदवद
1 संप्रदायादिति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute