________________
२०२
संगीतरनाकरः कुशलेषु विचित्रेषु स्थानकेष्वालीढादिषु नृत्ताध्याये वक्ष्यमाणेषु विषमेषु मण्डलादिषु सुनिश्चितैनिश्चयवद्भिः पुरुषैर्युक्तो नाट्यकुतप इत्युच्यते । एतेषां च पात्राणामुत्तममध्यमाधमत्वेन कुतपस्यापि त्रैविध्यम् । अमीषां त्रयाणां कुतपानां समूहः संघातो बृन्दमित्युच्यते ॥ २०३-२२३ ॥ इति श्रीमदन्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां
संगीतसुधाकराख्यायां प्रकीर्णकाध्यायस्तृतीयः
1 श्रीनर्मदातटाधीश्वरनन्दपुरीवास्तव्यमहाराजाधिराजश्रीगोपीनाथधर्माधिकारिभट्ट. श्रीनागनाथसुतश्रीगङ्गाधरविरचितायां Bik.
Scanned by Gitarth Ganga Research Institute