________________
तृतीयः प्रकीर्णकाध्यायः
२०१ मध्यमं बृन्दं भवति । मुख्यगातारौ द्वौ, समगायनाश्चत्वारः, गायन्य: षट् , वांशिकौ द्वौ, मार्दङ्गिको द्वौ; तन्मध्यमं बृन्दम् | कनिष्ठं बृन्दं लक्षयतिकनिष्ठ इति । मुख्यगायन एकः, समगातारस्त्रयः, गायन्यश्चतस्रः, द्वौ वांशिकौ, द्वौ मार्दशिकौ ; तत्कनिष्ठं बृन्दम् । गायनीबृन्दमपि त्रिधा-उत्तम मध्यमं हीनं चेति । तत्रोत्तमं लक्षयति-उत्तम इति । मुख्य द्वे गायन्यौ, समगायन्यो दश, द्वौ वांशिकौ, द्वौ मार्दशिको यत्र, तदुत्तमं गायनीबृन्दम् । यत्रैका मुख्यगायनी, समगायन्यश्चतस्रः, एको वांशिकः, एको मार्दङ्गिकः ; तन्मध्यमं गायनीबृन्दम् । इत एतस्मान्मध्यमादपि न्यूनं कनिष्ठमिति । अन्यदपि कोलाहलाख्यं बृन्दं लक्षयति-उत्तमाभ्यधिकमिति । उत्तमात् बृन्दादधिकैर्गायकादिभिर्युक्तं कोलाहलं बृन्दम् । बृन्दगुणान् कथयतिमुख्यानुवृत्तिरिति । मुख्यानां गायकानामनुवृत्तिस्तदनुगामित्वम् । मिलनमवैसादृश्यं गाने । ताललयानुवर्तनम् । लीनं लय: । त्रुटितस्यापूर्वस्य य: परस्परनिर्वाह: परिपूरणम् । स्थानत्रयव्याप्तिसामर्थ्यम् | शब्दसादृश्यं शब्दानामतिशयेन वैसादृश्याभावः । एते पट् बृन्दगुणाः । अन्यदपि बृन्दं कुतपाख्यं मतान्तरेण लक्षयति-आहेति । तत् कुतपबृन्दं त्रिधा-ततसंबन्धि, अवनद्धसंबन्धि, नाट्यसंबन्धि चेति । तत्र ततसंबन्धि कुतपं लक्षयति-ततस्येति । ततसंबन्धिनि कुतपे गायकस्यायं परिग्रहो ज्ञातव्यः । कोऽसौ परिग्रह इत्यत आह-वीणेति । घोषवतीचित्रादीनां वीणानां वाद्याध्याये वक्ष्यमाणलक्षणानां वादका गायकस्य परिग्रहः । अन्यमपि परिग्रहं कथयति-वांशिका इति । वांशिका वंशवादकाः । वक्ष्यमाणलक्षणा: पाविकादयः । तत्र वादकाः । मुहरी शृङ्गं च ये वादयन्ति, ते मुहरीशृङ्गवादिनः ; तदाद्याः । परा उत्तमास्तालधराश्च ये, तेषां समूहस्ततकुतप इत्युच्यते । अवनद्धकुतपं लक्षयति--कुतपे विति । अवनद्धस्य कुतप एको मुख्यो मार्दङ्गिकः । पणवदर्दुरादीनां वाद्यानां वाद्याध्याये वक्ष्यमाणानां वादकप्रसिद्धानां पृथग्वादकानां संचयः समूहो मार्दङ्गिकश्चेत्यवनद्धकुतपः । नाट्यकुतपं लक्षयतिवराटेति । वराटलाटकर्णाटदेशोत्पत्नैरनेकाभिनयकोविदैर्वक्ष्यमाणाङ्गहारप्रयोग
26
Scanned by Gitarth Ganga Research Institute