________________
२००
संगीतरत्नाकरः अङ्गहारप्रयोगहास्यताण्डवकोविदैः। विचित्रस्थानकपोटैविषमेषु सुशिक्षितैः' ॥ २२२ ॥ नाट्यस्य कुतपः पात्रैरुत्तमाधममध्यमैः । कुतपानाममीषां तु समूहो वृन्दमुच्यते ।। २२३ ॥
इति बृन्दभेदाः इति श्रीमदनवद्यविद्या विनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननि:शङ्कश्रीशाङ्गदेवविरचिते संगीतरत्नाकरे
प्रकीर्णकाध्यायस्तृतीयः तालादीनां गीतोपरञ्जकत्वात् धनवाद्यवादकानामप्यवनद्धकुतपेऽनुप्रवेशः। तालस्य तु गीतादिमानहेतुत्वात् तुर्यत्रयप्रतिष्ठात्वेन सर्वत्रानुप्रवेशो द्रष्टव्यः । सुगममन्यत् । ॥ २०३-२२३ ॥
प्रत्यक्षभरताचार्यः कलिनाथो विदां वरः ।
विप्रसंकीर्णविषयं प्रकीर्णकमवर्णयत् ।। इति श्रीमदभिनवभरताचार्यगयवय(वाग्गेय)कारतोडरमल्ललक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ
प्रकीर्णकाख्यस्तृतीयोऽध्याय: (सं०) बृन्दं लक्षयति-गातृवादकेति । गातारो गायनाः गायन्यश्च । वादका वांशिकादयः । तेषां संख्याविशेषेण कबालितः संघातः समूहो बृन्दमित्युच्यते । तत् त्रिविधम्-उत्तमं मध्यमं कनिष्ठं चेति । तत्रोत्तमं बृन्दं लक्षयति-चत्वार इति । यस्मिन् बृन्दे चत्वारो मुख्यगातारः, समगायनाः द्विगुणाः अष्टौ, गायन्यः द्वादश, वांशिका: वंशवादिनश्चत्वारः, मार्दङ्गिकाश्चत्वारः; तदुत्तमं बृन्दम् । मध्यमं बृन्दं लक्षयति-मध्यमं स्यादिति । उत्तमस्यार्धन
1 सुनिश्चितैः इति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute