________________
१९९
तृतीयः प्रकीर्णकाध्यायः ततस्य चावनद्धस्य नाट्यस्येति त्रिधा च सः। ततस्य कुतपे ज्ञेयो गायनस्य परिग्रहः ॥ २१२॥ वीणा घोषवती चित्रा विपश्ची परिवादिनी। वल्लकी कुब्जिका ज्येष्ठा नकुलोष्ठी च किंनरी ।। २१३ ।। जया कूर्मी पिनाकी च हस्तिका शततन्त्रिका। औदम्बरी च षट्कर्णः पौणो रावणहस्तकः ॥ २१४ ।। सारङ्गयालपनीत्यादेस्ततवाद्यस्य वादकाः। वांशिकाः पाविकापावकाहलाशङ्कवादकाः॥ मुहरीशृङ्गवाद्याद्यास्तथा तालधरा वराः।। कुतपे त्ववनद्धस्य मुख्यो मार्दङ्गिकस्ततः ।। २१६ ।। पणवो दर्दुरो डका मण्डिडका च डक्कुली। पटहः करटा ढक्का ढवसो घडसस्तथा ॥ २१७ ॥ हुडुक्का डमरू रुञ्जा कुडुका कुडुवा तथा । निःसाणस्त्रिवली भेरी तुम्बकी बोम्बडी तथा ॥२१८॥ पट्टवाद्यं पटः कम्रा झलरीभाणसेल्लुकाः।। जयघण्टा कांस्यतालो घण्टा च किरिकिटकम् ।।२१९।। वाद्यानामेवमादीनां पृथग्वादकसंचयः। वराटलाटकर्णाटगौडगुर्जरकोङ्कणैः ॥ २२० ॥ महाराष्ट्रान्ध्रहम्मीरचौलैर्मलयमालवैः।
अङ्गवङ्गकलिङ्गायै नाभिनयकोविदैः ।। २२१ ॥ तत्रानुक्तलक्षणास्तु वीणा लोकत एवावगन्तव्याः। वंशादीनां गीतजनकत्वेन ततवाद्यसाधाद्वांशिकादिसुषिरवादकानां ततकुतपेऽनुप्रवेश उक्तः । एवं कांस्य
1 तालधराः पराः इति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute