________________
१९८
संगीतरत्नाकरः
बृन्दम् गातृवादकसंघातो बृन्दमित्यभिधीयते
इति बृन्दम्
___ बृन्दभेदाः उत्तमं मध्यममथो कनिष्ठमिति तत् त्रिधा ॥ २०३ ॥ चत्वारो मुख्यगातारो द्विगुणाः समगायनाः। गायन्यो द्वादश प्रोक्ता वांशिकानां चतुष्टयम् ॥२०४॥ मार्दनिकास्तु चत्वारो यत्र तद्वन्दमुत्तमम् । मध्यमं स्यात्तदर्धन कनिष्ठे मुख्यगायनः ॥ २०५॥ एकः स्यात् समगातारस्त्रयो गायनिकाः पुनः। चतस्रो वांशिकद्वंद्वं तथा मार्दलिकद्वयम् ।। २०६॥ उत्तमे गायनीबृन्दे मुख्यगायनिकाद्वयम् । दश स्युः समगायन्यो वांशिकद्वितयं तथा ॥ २०७ ।। भवेन्मार्दलिकद्वंद्वं मध्यमे मुख्यगायनी । एका स्यात् समगायन्यश्चतस्रो वांशिकास्तथा ॥२०८॥ इतो न्यूनं तु हीनं स्याद्यथेष्टमथवा भवेत् । उत्तमाभ्यधिकं वृन्दं कोलाहलमितीरितम् ॥ २०९ ॥ मुख्यानुवृत्तिमिलनं ताललीनानुवर्तनम् । मिथस्त्रुटितनिर्वाहस्त्रिस्थानव्याप्तिशक्तिता ॥ २१० ॥ शब्दसादृश्यमित्येते प्रोक्ता बृन्दस्य षड् गुणाः। आह वृन्दविशेषं तु कुतपं भरतो मुनिः ।। २११ ॥
(क०) अथ बृन्दलक्षणमाह-गातृवादकसंघात इत्यादिना । ततकुतपे परिगणितासु घोषवत्यादिवीणासु कासांचिल्लक्षणानि वाद्याध्याये वक्ष्यन्ते ।
Scanned by Gitarth Ganga Research Institute