________________
१९५
तृतीयः प्रकीर्णकाध्यायः
रूपकालप्तिः रूपकस्थेन रागेण तालेन च विधीयते। या प्रोक्ता रूपकालप्तिः सा पुनर्द्विविधा भवेत् ।।१९७।। प्रतिग्रहणिकैकान्या भञ्जनीत्यभिधीयते। विधाय स्थायमालप्ते रूपकावयवो यदि ॥ १९८ ॥ प्रतिगृह्येत सा प्रोक्ता प्रतिग्रहणिका वुधैः। भञ्जनी द्विविधा ज्ञेया स्थायरूपकभञ्जनात् ॥ १९९ ॥
यदा तत्पदमानेन स्थायो रूपकसंस्थितः। कृत्वा तत्रैव न्यसनं स्वस्थानसमाप्तिः । इदं द्वितीयं स्वस्थानम् । तृतीयं स्वस्थानं लक्षयति-स्थायिस्वरादिति । स्थायिनः स्वरादष्टमः स्वरो द्विगुण इत्युच्यते । चतुर्थों द्वयर्धः । तयोश्चतुर्थाष्टमयोः स्वरयोर्मध्ये स्थिताः स्वराः पञ्चमषष्ठसप्तमा अर्धस्थिता इत्युच्यन्ते । तत्रैव चालनं कृत्वा अर्धस्थिते न्यसनं तृतीयं स्वस्थानम् । चतुर्थ स्वस्थानं लक्षयति-द्विगुण इति । द्विगुणे अष्टमस्वरे चालनं कृत्वा स्थायिनि न्यासादालप्तिसमाप्तेश्चतुर्थ स्वस्थानम् । एवंविधैः चतुर्भिः स्वस्थानयुका रागालप्तिरित्युच्यते । रागालप्तिविशेष स्थापनां लक्षयतिस्तोकस्तोकैरिति । तत उक्तलक्षणालप्त्यनन्तरं स्तोकस्तोकैः प्रसन्नैबहुविधचातुर्ययुक्तीवस्वरस्यांशस्वरस्य व्याप्तिर्बहुश उच्चारणं मुख्यं येषु तथाविधैः स्थायैः करणभूतैः रागस्य या अभिव्यक्तिः, सा स्थापनेत्यभिधीयते ॥ १९०-१९६ ॥
(क०) अथालप्तरेव रागप्रकटीकरणात्मतां प्रकटीकर्तुं रूपकालप्ति विवृणोति-रूपकस्थेनेत्यादिना । आलप्तेः स्थायं रागालप्तेरवयवं विधाय प्रथमं गीत्वा रूपकावयवः प्रकृतस्थायोचितत्वेन स्वाभिमतः प्रबन्धैकदेशो यदि पतिगृह्येत उपादीयेतेत्यर्थः, एषा प्रतिग्रहणिकालप्तिः । तत्पदमानेनेति । तच्छब्देनात्र प्रकृतत्वाद्र्पकं परामृश्यते । तस्य पदानि विदार्यवान्तरभागाः । तेषां मानेन प्रमाणेन, तत्कालविश्रान्तियुक्तया क्रिययेत्यर्थः । तेन युक्तो
Scanned by Gitarth Ganga Research Institute