________________
संगीतरत्नाकरः नानाप्रकारः क्रियते सा ज्ञेया स्थायभञ्जनी ॥ २०० ॥ तैः पदैस्तेन मानेन समग्रं रूपकं यदि । अन्यथा चान्यथा गायेदसौ रूपकभञ्जनी ॥ २०१॥ वर्णालंकारसंपन्ना गमकस्थायचित्रिता। आलप्तिरुच्यते तज्ज्ञैर्भूरिभङ्गिमनोहरा ॥ २०२॥
इति रूपकालप्तिः रूपसंस्थितोऽवयवत्वेन प्रबन्धेऽनुप्रविष्टः स्थायः । स्थायोऽत्र प्रबन्धैकदेशः । नानाप्रकारो विचित्ररीतियुक्तः क्रियते गातृवादकप्रतिभाविशेषेणोद्भाव्यते चेत्, सा स्थायभञ्जनी । तैः पदैरित्यादि । पदवत् पदानि ; यथा वाक्यस्य पदान्यवयवाः, तथा प्रबन्धस्यावयवा विदारीभागाः पदानीत्युच्यन्ते । न तु वाचकानि सुबन्तादीनि वा भाषापदानि । अन्यथा चान्यथा गायेदिति । अत्रान्यथात्वं नाम प्रबन्धे प्रकृतधातोर्धात्वन्तरपरिग्रहः । तेनात्र वीप्सया समग्रप्रबन्धस्य प्रकृततानस्थायानुकारिभिस्तानान्तरैस्तत्तद्रागोचितगमकादियुक्तैर्बहुधावयविन एव पुनः पुनरावृत्तिभिर्गानमभिद्योत्यते । तदासौ रूपकमजनी भवति । अयं भावः--अस्यां रूपकालप्तौ प्रथममनभिव्यक्तस्य रागस्य स्थायप्रतिग्रहभञ्जनाभ्यां प्रकटीकरणे सति किंचित्प्रतीयमानत्वं भवति । यथा जनसमाजे प्रविष्टत्वात् स्वरूपेणाप्रतीतस्य देवदत्तस्य कार्यवशादितस्ततः संचारेण प्रकटीकरणे सति किंचित्प्रतीयमानत्वम् ; यथा वा भिन्नवणेपु मणिषु प्रोतत्वादप्रतीतस्य मुक्तामणेः सूत्रशैथिल्यादितस्ततः सरणेन स्वरूपप्रकटीकरणे सति किंचित्प्रतीयमानत्वं, तद्वदिति । एवं रूपकालप्तौ रागस्य प्रकटीकरणं द्रष्टव्यम् । सकलालप्तिव्यक्तिप्वनुगतं सामान्यलक्षणमाह-वर्णालंकारसंपन्नेत्यादि । अत्र विशेषणसाम्यात् स्त्रीसमाधिव॑न्यते । यथा वर्णालंकारादिसंपन्ना कामिनी कामुकदर्शने कदाचिदाविर्भूतं कुचकेशादिकं स्वाङ्गं किंचिद्दर्शयति; एवं सविलास
Scanned by Gitarth Ganga Research Institute