________________
१९४
संगीतरत्नाकरः द्विगुणे चालयित्वा तु स्थायिन्यासाचतुर्थकम् । एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम् ।। १९५ ।। स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैर्बहुभङ्गिभिः । जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत् ॥ १९६ ॥
इति रागालप्तिः चालयित्वा स्थायिन्यासे सति तृतीयं स्वस्थानमिति । द्विगुणे चालयित्वेति । द्विगुण इति तदुत्तरेषामप्युपलक्षणम् । तेषु चालयित्वा स्थायिन्यासाच्चतुर्थ स्वस्थानं भवति । स्तोकस्तोकैरित्यादि । जीवस्वरः अंशस्वरः । उक्तस्वस्थानचतुष्टयप्रयुक्तायामालप्तायुक्तलक्षणैः स्वल्पैः रागावयवैर्विस्तार्यमाणायामापाततोऽभिव्यक्तस्य रागस्य रागान्तरसाधारणस्थायादिप्रयोगात् स्वरूपतिरोभावे सति किंचित्प्रतीयमानता भवेदित्यभिप्रायः। यथा लोके सभां प्रत्यागच्छतो देवदत्तस्य स्वरूपेणाभिव्यक्तस्य ततः सभां प्रविश्योपविष्टस्य स्वसदृशरूपवेषभाषादिसांकर्यात् स्वरूपतिरोभावे सति तस्य किंचित्प्रतीयमानत्वम् ; यथा वा पृथगानीय भिन्नवणेपु मणिपु प्रोतस्य मुक्तामणेर्मण्यन्तरच्छायोपरागात् स्वरूपतिरोभावे सति तस्य किंचित्प्रतीयमानत्वं, तद्वदिति ॥ १९०-१९६ ॥
(सं०) तत्र रागालतिं लक्षयति-रागालप्तिस्त्विति । या रूपकप्रबन्धे एलामण्ठाद्यनपेक्ष्य प्रवर्तते, सा रागालप्तिः । सा चतुर्भिः स्वस्थानैः रागालप्त्यवयवैर्वक्ष्यमाणैः स्यादिति गीतविदो भग्तादयो विदुः । तत्र प्रथमं स्वस्थानं लक्षयति-यत्रेति । यत्र स्वरे राग उपवेश्यते स्थाप्यते, स स्वरः स्थायीत्युच्यते । ततः स्थायिन आरोहेण चतुर्थः स्वरो द्वयर्ध इत्युच्यते । तस्मात् द्वयर्धात् स्वरादधस्तने तृतीये स्वरे चालनं पुनरुच्चारणात्मकं वांशिकप्रसिद्धं मुखचाल इत्युच्यते । इदमालप्तेः प्रथमं स्वस्थानम् । द्वितीयं स्वस्थानं लक्षयति-द्वयर्धस्वर इति । द्वयर्धस्वरे स्थायिनः स्वराच्चतुर्थे स्वरे चालनं
Scanned by Gitarth Ganga Research Institute