________________
१९३
तृतीयः प्रकीर्णकाध्यायः यत्रोपवेश्यते रागः खरे स्थायी स कथ्यते ॥ १९१ ।। ततश्चतुर्थो द्वयर्धः स्यात् स्वरे तस्मादधस्तने । चालनं मुखचालः स्यात् खस्थानं प्रथमं च तत् ॥१९२॥ द्वयर्धस्वरे चालयित्वा न्यसनं तद् द्वितीयकम् । स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः ॥ १९३ ।। द्वयर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः खराः। अर्धस्थिते चालयित्वा न्यसनं तु तृतीयकम् ॥ १९४ ॥
वक्ष्यमाणत्वात् । तत्र मात्रयाप्यनाश्रितेत्यर्थः । स्वस्थानैरिति । स्वस्थानः; रागालपनविश्रान्तिप्रदेशैः चतुर्भिः मुखचालादिभिर्वक्ष्यमाणलक्षणैः । स्यात् ; उपलक्षिता स्यादित्यर्थः । स्वस्थानैरितीत्थंभूतलक्षणे तृतीया। यत्रेत्यादि । यत्र यस्मिंस्तत्तद्रागांशभूते षड्जादिप्वन्यतमे स्वरे राग उपवेश्यते स्थाप्यते, स स्वरो रागस्थितिहेतुत्वात् स्थायीति कथ्यते । ततः स्थायिनः स्वरात् चतुर्थः आरोहक्रमेण सत्यपि लोप्यस्वरे तेन सह गणनायां चतुर्थः स्वरो द्वयर्धः स्यात् । द्विगुणस्वरापेक्षयार्धत्वात् व्यर्धसंज्ञको भवति । तस्मादधस्तन इति । तस्मात् द्वयर्धस्वरात् । अधस्तने स्वर इति तदधोऽधःस्थानामप्युपलक्षणम् । तेन स्थायिनोऽप्यधस्तना गृह्यन्ते, अन्यथैकस्मिन्नेव स्वरे रागप्रतीतेरभावात् । तेषु चालनं तत्तद्रागोचितस्फुरितकम्पितादिगमकयुक्तत्वेनोच्चारणं वादनं वा मुखचालः स्यात् । मुखचाल इत्यन्वर्थसंज्ञा । तदेव प्रथमं स्वस्थानम् । अयमर्थः-स्थायिनमारभ्य द्वयर्धस्वरमर्यादावधिं कृत्वा तदधस्तनान् यथोचितं चालयित्वा स्थायिनि न्यासे कृते प्रथमं स्वस्थानमिति । द्वयर्धस्वरे चालयित्वेति । पूर्वोक्तैः स्वरैः सह द्वयर्धस्वरमपि चालयित्वा स्थायिन्यासे सति द्वितीयं स्वस्थानमित्यर्थः । अर्धस्थिते चालयित्वेति । अयमर्थः--द्विगुणं परित्यज्य तदधोऽधःस्थितेषु
25
Scanned by Gitarth Ganga Research Institute