________________
१९२
संगीतरत्नाकरः
रागालप्तिः रागालप्तिस्तु सा या स्यादनपेक्ष्यैव रूपकम् ॥ १९० ॥
खस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः। मालप्तिरिति वा, आलपनमालाप इति वा व्युत्पादयितुं शक्यते ; नान्यथेति गतमेतत् । फलसाम्याभिप्रायेण प्रकारान्तरमपि क्रोडीकर्तुमाह--प्रकटीकरणं ममिति । अत्र प्रकृतत्वाद्रागस्य प्रकटीकरणमिति गम्यते । रागप्रकटीकरणमप्यालप्तित्वेन संमतमित्यर्थः । प्रकटीकरणमित्यत्र प्रकटीति च्वेरभूततद्भावार्थत्वात् किंचित्प्रतीयमानार्थत्वं विवक्षितम् । आलपनमित्यत्रापि तिरोभावस्य प्रकटार्थावरणरूपत्वात् तत्रापि किंचित्प्रतीयमानार्थत्वं विवक्षितम् । तेनोभयत्रापि फलभूतं रागस्य किंचित्प्रतीयमानत्वमेवालप्तिशब्दप्रवृत्तौ निमित्तमित्यवगन्तव्यम् । तथा ह्यालप्तौ प्रकारद्वयम् । तच्च पर्यायेण संभवति । यदा तावदाविर्भूतस्य रागस्य विचित्रवर्णालंकारगमकस्थायप्रयोगभङ्गिभेदेन तिरोभावः क्रियते, तदालप्तिशब्दस्यालपनशब्दसमानार्थता । यदा त्वत्र तस्य रागस्य तादृशेनैव प्रयोगभेदेन तद्भावः संपद्यते, तदा प्रकटीकरणशब्दसमानार्थता चेति रहस्यमेतत् । एवमालप्तिशब्दार्थ प्रदर्श्य तद्भेदान् प्रदर्शयति-सा द्विधेत्यादिना । रागरूपकाभ्यां विशेपणादिति । रागविशेषणाद्रागालप्तिः; रूपकविशेषणाद्रपकालप्तिरित्यर्थः ॥ १८९-१९० ॥
(सं०) आलप्ति लक्षयति-रागालपनमिति । रागस्यालपनमालप्तिरित्यभिधीयते । नन्वालपनमालप्तिरिति पर्यायः ; कथमस्य लक्षणत्वमत आहप्रकटीकरणमिति । येन स्वरसंदर्भण रागः प्रकटीक्रियते, सा आलप्तिः । सा द्विविधा- रागालप्तिः, रूपकालप्तिरिति ॥ १८९-१९० ॥
(क०) रागालप्तिस्त्विति । तुशब्दो रूपकालप्तेस्तस्या वैलक्षण्यद्योत• नार्थः । रूपकमनपेक्ष्यैवेति । रूपकं प्रबन्धः ; 'प्रबन्धो वस्तु रूपकम् । इति
Scanned by Gitarth Ganga Research Institute