________________
तृतीयः प्रकीर्णकाध्यायः
१९१ तदेवं सर्वपदार्थव्यापित्वादुपचयापचयान्तरालावस्थास्त्रीणि लिङ्गानि । एवंच नक्षत्रं तारका तिप्यः; डिम्भः कुमारी; अर्थो वस्त्वित्येकस्याप्यर्थस्य नानालिङ्गयोग उपपद्यते; आविर्भावादित्रयस्यापि गुणभेदेन तस्मिन्नवार्थे सर्वदा संभवात् । न चैवं तद्वत्तेः सर्वस्यैव शब्दस्य त्रिलिङ्गताप्रसङ्गः । न ह्यस्ति नियमो यः शब्दो यत्रार्थे पर्यवस्यति, तत्र विद्यमानः सर्व एवाकारस्तेन शब्देनाभिधातव्य इति । किंतु य आकारोऽभिधीयते, तेन सता भवितव्यमित्येतावत् । तद्यथा-तक्षा युवा कृष्णः कामुक इति तक्षादिशब्दानामेकार्थपर्यवसायिनामपि व्यवस्थित एवाकारो वाच्यः । तथा लिङ्गेष्वपि द्रष्टव्यम् । उक्तं च
संनिधाने पदार्थानां किंचिदेव प्रवर्तकम् । यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ॥
इति । उपचीयते कुमारीत्यत्रापि कुमारीशब्दः स्वमहिम्ना कस्यचिद्धर्मस्यापचयमेवाह । शब्दान्तरप्रयोगात्तु धर्मान्तरस्योपचयः प्रतीयते । एवं क्षीयते वृक्ष इत्यत्रापचयः प्रतीयते । तदेवं सर्वमनाकुलमिदं दर्शनम् । तत्राचेतनेषु सर्वत्रोपदेशादेवाभिव्यक्तिः । चेतनेष्वपि स्वयमव्यञ्जितस्य लिङ्गस्योपदेशादेवाभिव्यक्तिः । उपदेशः पुनर्लिङ्गानुशासनादिषु ।” इति ।
नन्वेवमवस्थाभेदेनार्थभेदसिद्धेः कथं रागालपनालप्तिशब्दयोरेकार्थत्वेनोपन्यास उपपद्यत इति चेत् ; उच्यते---स्थित्यवस्थभावार्थवदालपनशब्दस्य तिरोभावावस्थभावार्थवदालप्तिशब्दस्य चार्थभेदे सत्यपि स्थित्यवस्थाया आविर्भावतिरोभावावस्थयोरन्तरालत्वेनोभयसाधारणतया काकाक्षिन्यायेन यदालपनशब्दस्य तिरोभावार्थप्रधानत्वं विवक्षितं तदालप्तिशब्देन समानार्थत्वम् ; यदा तु तस्यैवाविर्भावार्थप्रधानत्वं विवक्षितं तदालापशब्देन समानार्थत्वमिति । अत एवालपन
Scanned by Gitarth Ganga Research Institute