________________
१८७
तृतीयः प्रकीर्णकाध्यायः साम्ये तु मिश्रनामैव स त्विदानी प्रपञ्च्यते । तिरिपान्दोलितो लीनकम्पितः कम्पिताहतः ॥ १७८॥ तिरिपस्फुरितो लीनस्फुरितः स्फुरिताहतः। लीनकम्पितलीनश्च विभिन्नकुरुलाहतः ।। १७९॥ प्लावितोल्लासितवलिर्चलिहुम्फितमुद्रितः। नामितान्दोलितवलिर्वलिनामितकम्पितः ॥ १८० ॥ आन्दोलितप्लावितकसमुल्लासितनामितः। तिरिपान्दोलितवलिविभिन्नकुरुलोऽपरः ॥ १८१ ।। विभिन्नलीनस्फुरितप्लावितान्दोलितः परः। वहनीढालयोर्दालवहन्योः शब्दढालयोः ।। १८२ ॥ वहनीयन्त्रयोश्च्छायायन्त्रयोः शब्दयन्त्रयोः। वहनीच्छाययोर्यन्त्रवाद्यशब्दभवः परः ॥ १८३ ।। तीक्ष्णप्रेरितकस्तीक्ष्णप्रेरितः खरलडितः। ढालशब्दोत्थयन्त्रोत्थवाद्यशब्दभवः परः ॥ १८४ ॥ ढालच्छायायन्त्रवाद्यशब्दशब्दभवोऽपरः। प्रलम्बितावस्खलितस्त्रोटितोल्लासितः परः ॥ १८५ ॥ संप्रविष्टोत्प्रविष्टश्व संप्रविष्टतरङ्गितः। प्रतिग्राह्योल्लासितश्चोत्क्षिप्तोऽलम्बविलम्बकः ॥१८६॥ स्यात् ब्रोटितप्रतीष्टोत्प्रविष्टनिःसरणः परः।
आह-यो यस्मिन्निति । यस्मिन् मिश्रे स्थाये यः पूर्वोक्तेषु स्थायेषु बाहुल्येन दृश्यते, स तन्नामा मिश्रस्थायः ; यथा शब्दमिश्रो ढाल मिश्र इति । यत्र तु द्वयादीनां लक्षणसाम्यं, तदा मिश्रनामानः स्थायाः । तानेव मिश्रनाम्नः स्थायान् कतिचित् कथयति-तिरिपान्दोलित इत्यादिना । अत्र द्वयोर्लक्षणसाम्ये द्वियोगजः त्रयाणां
Scanned by Gitarth Ganga Research Institute