________________
१८८
संगीतरत्नाकरः दीर्घकम्पितसूक्ष्मान्तभ्रामितस्थायुकोऽन्यकः ॥१८७॥ वहाक्षराडम्बरजः प्रसृताकुञ्चितस्थिरः । भ्रामितक्षिप्तसूक्ष्मान्ततरङ्गितविलम्बितः ॥ १८८॥ एते षट्त्रिंशदन्येऽपि विज्ञातव्या दिशानया।
इति स्थायभेदलक्षणानि ।
___ आलप्तिभेदलक्षणानि रागालपनमालप्तिः प्रकटीकरणं मतम् ॥ १८९ ।।
सा द्विधा गदिता रागरूपकाभ्यां विशेषणात् । लक्षणसाम्ये त्रियोगजः । चतुर्णा लक्षणसाम्ये चतुर्योगजः । एवं षट्त्रिंशत् दिक्प्रदर्शनार्थमुक्ताः । अनया दिशा अन्येऽप्यूहनीयाः । इति स्थायवाग लक्षणम् ॥ १७६-१८९ ॥
(क०) अथ सप्रभेदामालप्तिं लक्षयिष्यन् प्रथमं तावदालप्तिशब्दं व्युत्पादयितुमाह-रागालपनमालप्तिरिति । अत्र यदालपनं सा आलप्तिरित्यनेनालप्तिशब्दोऽप्यालपनशब्दवद्भावसाधनत्वेन व्युत्पन्न इति दर्शितं भवति । नन्वालापशब्दस्यापि भावसाधनत्वाविशेषात् ‘स्याद्रागालाप आलप्तिः' इति व्युत्पादनं कस्मान्न क्रियत इति चेत् ; उच्यते-घक्तिन्प्रत्यययोविलक्षणार्थत्वादिति । तथाहि-~-घजस्तावदाविर्भावोऽर्थः । क्तिनस्तु तिरोभावोऽर्थः । आविर्भावतिरोभावयोरत्यन्तवैलक्षण्यमेव । ल्युटस्तु तदुभयमध्यस्थस्थित्यर्थत्वात्तदन्तेन घक्तिनन्तयोर्युत्पादनमविरुद्धम् । ताभ्यां तु परस्परव्युत्पादनं विरुद्धमेव । अत एव भावावस्थाभेदात् घञाद्यन्तानां लिङ्गभेदोऽप्युपपन्न एव । यथा घार्थ आविर्भावः सत्त्वपरिणामरूपो मूर्तिधर्मः पुंस्त्वेन दृष्ट इति घअन्तस्य पुंलिङ्गता ; क्तिनर्थस्तिरोभावो रजःपरिणामरूपो मूर्तिधर्मः स्त्रीत्वेन दृष्ट इति क्तिनन्तस्य स्त्रीलिङ्गता;
Scanned by Gitarth Ganga Research Institute